SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. 1055 क्वचिद्विकल्पः / ईषदपरिसमाप्तौ गुडो बहुगुडो बहुगुडा वा द्राक्षा प्रकृतिलिङ्गप्रतिपत्तिव्युदासार्थ वचनम् / हरीतक्यादिका प्रकृतिः प्रत्ययार्थे वर्तमानापि प्रकृत्यर्थलिङ्गं नातिकामति / हरीतक्या विकारोऽवयवो वा हरीतकी हरोतक्यौ हरितक्यः फलानि / एवं पिप्पल्यादयोऽपि / मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका / एवं मालती यूथिका मागधी नवमालिकादयोऽपि // 2 // वचनं तु खलतिकादिवर्थात्येति पूर्वपदभूता // स्त्रीपुंनपुंसकानां सहवचने स्यात् परं लिङ्गम् // 3 // ( अव० ) खलतिकादिका प्रकृतिर्वचनमेव नातिकामति / लिङ्गं तु अतिक्रामति / तुरेवार्थे / खलतिको नाम पर्वतस्यादुरभवानि खलतिकं वनानि। बहुविषया प्रकृतिः पञ्चालादिका पूर्वपदभूता सतो स्वगतं वचनमतिकामति / 'अख्यारोपाभावे'- इत्यस्यापवादः / पञ्चालाश्च निवासः मथुरा च पञ्चालमथुरे / स्त्रीपुंनपुंसकानामिति / स्त्रीपुंनपुंसकलिङ्गानां सहवचने परं पुंलिङ्गं नपुंसकलिङ्गं वा भवति / स्त्रीपुंसयोः सहवचने पुंलिङ्गं भवति / सा च स च तौ / स च शाटी च तौ। स्त्रीनपुंसकयोर्नपुंसकम् / सा च वस्त्रं च ते / पुनपुंसकयोनपुंसकम्। स च तच्च ते / स्त्रीपुंनपुंसकानां नपुंसकम् / सा च स च तच्च तानि // 3 // नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः // पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् // 4 // ( अव० ) नन्ता संख्या डत्यन्तं युष्मदस्मदी च अलिङ्गाः शब्दाः। पञ्च कति यति वा स्त्रियः / अत्र ङीर्न भवति / युष्मभ्यम् अस्मभ्यम् अत्राए न भवति / विभक्त्यन्तं पदं, सविशेषणमाख्यातं वाक्यम् , स्वराद्यव्ययं च अलिङ्गानि असंख्यानि च / काण्डे / कुलं पचते / काण्डीभूतं कुलम् / एषु क्लीबे इति ह्रस्वो न भवति / तद्बहुलम् / तत्पूर्वक्तिं लिङ्गलक्षणं बहुलं द्रष्टव्यम् / तेन 'पिङ्गः पिशङ्गे पिङ्गी तु शम्यां पिङ्गे तु बालकम् / रामठे नालिकायां तु पिङ्गा गोरोचनामयोः' इत्येवमादि लिङ्गं शिष्टप्रयोगानुसारेण वेदितव्यम् / तदुक्तम् वाग्विषयस्य तु महतः संक्षेपत एव लिङ्गविधिरुक्तः / / यन्नोक्तमत्र सद्भिस्तल्लोकत एव विज्ञेयम् // 1 // निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् // आचार्यहेमचन्द्रः समभदनुशासनानि लिङ्गानाम् // 5 // // इति हैमलिङ्गानुशासनम् //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy