________________ 1041 लिङ्गानुशासनम् ] हैमपञ्चपाठी. च / टङ्कः पाषाणादिच्छेदोपकरणं गिरिशृङ्गं च / विटङ्कः विटई कपोतपालीसंझं पक्षिविश्रामार्थ बहिर्निर्गतं दारु चक्रदार्वाधारः, तत्र हि कपोतपङ्क्तिरुत्कीर्यते / मञ्चकः 2 पल्यङ्कः / मेचकः 2 वर्णविशेषः / नाकः 2 स्वर्ग आकाशं च / पिनाकः 2 रुद्रधनुः। पुस्तकः 2 लिखि पत्रसञ्चयः / णकप्रत्ययान्तोऽयम् / तेन पुस्तात् स्वार्थिक केन च सिद्धयति / मस्तकः 2 शिरः। उणादौ तु कान्तोऽयम् / तप्रत्ययान्ताद्वा स्वार्थिकाकः। मुस्तकः 2 मुस्ता। शाकं 2 मूलकादि। वर्णकः 2 विलेपनम् / मोदकः 2 लड्डुकः / मूषिकः 2 आखुः। मुष्कः 2 वृषणः // 10 // चण्डातकश्वरकरोचककञ्चुकानि मस्तिष्कयावककरण्डकतण्डकानि // आतङ्कशूकसरकाः कटकः सशुल्कः पिण्याकझझरकहंसकशंखमुखाः॥११॥ ( अव० ) चण्डातकः 2 अर्धारुकवस्त्रम् / चरकः 2 शास्त्रविशेषः / रोचकः 2 क्षुत् / कञ्चुकः 2 सन्नाहादिः। मस्तिष्कः 2 मस्तकस्नेहः। यावकः 2 अलक्तकः / करण्डकः 2 पुष्पाद्याधारः / तरण्डकः 2 शाल्यादिसारः / आतङ्क: 2 इष्टवियोगतापरुक्शंकादिषु / घञन्तत्वात् पुंसि / शूकः 2 धान्यादेः शंगः। सरकः 2 मद्यभाजनम् / मद्यपाने तु त्रिलिङ्गः / कटकः 2 सैन्यं सानुः वलयोऽद्रिशृङ्गं च / शुल्कः 2 मार्गादौ राजदेयं स्त्रीविवाहपरिग्राह्यं धान्यं च / पिण्याकः 2 तिलादिखलः / झर्झरकः 2 कलियुगम् / हंसकः 2 नू पुरम् / शंखः 2 कम्बुः वलयं प्राण्यङ्गम् / पुंखः 2 शरपृष्ठम् // 11 // नखमुखमधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः // क्रकचकवचकूर्चाधर्चपुच्छोञ्छकच्छा व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च // 12 // (अव० ) नखमुखे प्रसिद्धे / अधिकाङ्गः 2 सारसनं यद्हृदि बध्यते युधि / संयुग, 2 संग्रामः / पद्मरागः 2 शोणमणिः। भग 2 उपस्थः / युगो 2 यूपः / टङ्गः 2 खनित्रम् / उद्योगः 2 पराक्रमः / शृङ्गं 2 शिखरम् / निदाघः 2 ग्रीष्मः / क्रकचः 2 करपत्रम् / कवचः 2 वर्म / कूर्चः भ्रूमध्यम् दीर्घश्मश्रु कैतवं च / ऋचोऽर्धमर्धर्चः 2 / 'परलिङ्गो द्वंद्वोऽशी' इत्यस्यापवादः / पुच्छः 2 लाङ्ग्लम् / उञ्छं 2 जीविकाविशेषः। कच्छो 2 बहुजलो देशः। ब्रजः 2 पन्थाः। उटजः 2 तापसपर्णकुटी। निकुञ्जः 2 गह्वरम् / कुञ्जः 2 गह्वरः गजकुंभाधो दन्तिदन्तः हनुश्च / भूर्ज 2 च तरुविशेषत्वक् / अम्बुजः कमलम् / चकारोऽ. नुक्तसमुच्चये / तेन चान्तेषु अध्यो 2 नमस्या // 12 // ध्वजमलयजकूटाः कालकूटारकूटौ कवटकपटखेटाः कर्पटः पिष्टलोष्टौ // नटनिकटकिरीटाः कर्बटः कुक्कुटाट्टौ कुटयकुटविटानि व्यङ्गटः कोट्टकुष्ठौ // 13 // ( अव० ) ध्वजः 2 पताकादिः। मलयजः 2 श्रीखण्डम् / कुटं 2 मायादि / कालकूटं 2 विषम् / आरकूटो 2 रीतिः। कवटः 2 उच्छिष्टम् / कपटः 2 दम्भः। खेदः फलकं कफश्च / कर्पटः 2 वासः। पिष्टः 2 अपूपः। लोष्टः 2 मृच्छकलम् / 131