SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ हैमपञ्चपाठी. [ हैमनरसभा। आदौ उपक्रमस्योपज्ञानस्य च प्राथम्ये विवक्षिते उपक्रमोपज्ञेत्येतदन्तस्तत्पुरुषः क्लीबः। श्रेयांसोपक्रमः श्रेयांसोपक्रमं दानम् / श्रेयांसेन श्रेयसे प्रथम प्रवर्तितमित्यर्थः / आदिदेवस्योपशा आदिदेवोपझं धर्मव्यवस्था / आदिदेवेन प्रथमं ज्ञात्वा प्रवर्तितेत्यर्थः / उपक्रम्यते इत्युपक्रमः / उपज्ञायते इत्युपक्षा / कर्मणि घनङावित्यनुयोगेन सामानाधिकरण्यम्। उशीनरा नाम देशस्तत्र चेत्कस्यचित्संज्ञायां वर्तमानः कन्थान्तस्तत्पुरुषः क्लीबः / सौशमीनां कंथा सौशमिकन्थम् / आह्वरकन्थं नाम उशीनरेषु ग्रामः / उशीनरेति किम् / दक्षिणकन्था नाम ग्रामसंज्ञा किन्तु उशीनरेषु न // 11 // सेनाशालासुराच्छायानिशा वोर्णा शशात्परा // भाद्गणो गृहतः स्थूणा संख्यादन्ता शतादिका // 12 // (अव० ) सेनाद्यन्तस्तत्पुरुषो वा क्लीबः। कपिसेनम् / कपिसेना / हस्तिशालम् / हस्तिशाला / यवसुरम् / यवसुरा / छत्रच्छायम् / छत्रच्छाया / चौ. रनिशम्। चौरनिशा / अनकर्मधारय इति किम् / असेना। परमसेना / शशात्परो य ऊर्णाशब्दस्तदन्तस्तत्पुरुषः क्लोबः / शशोर्णम् / अन्यत्र तु न / छागोर्णा / भात्परो यो गणस्तदन्तस्तत्पुरुषः क्लीबः / भगणम् / अन्यत्र न / गोगणः। गृहात्परा या स्थूणा तदन्तस्तत्पुरुषः क्लीबः। गृहस्थूणं गृहधारणम् / अन्यत्र त न। शालास्थूणा / अकारान्ताः शतप्रभृतिसंख्याः क्रोबाः / अब्जं खर्व निखर्व महासरोजमित्यादि / शतसहस्रायुतप्रयुतानां पुंनपुंसकत्वम् / लक्षस्य तु पुंस्त्रीत्वम् // 12 // मौक्तिकं माक्षिकं सौप्तिकं क्लीतकं नाणक नाटकं खेटकं तोटकम् // आहिकं रूपकं जापकं जालकं वेणुकं गैरकं कारकं वास्तुकम् // 13 // (अव० ) अथ कान्ताः। मौक्तिकं मुक्ता / माक्षिकं यस्मात्ताम्रादि भवति स धातुविशेषः / सौप्तिकं रात्रिधाटी / क्लीतकं मधुकम् / नाणकं रूपकादि / नाटकं दशरूपकभेदः। खेटकं फलकम्। तोटकं दशरूपकभेदः वृत्तं च / आह्निक नित्यक्रिया भोजनं च / रूपकं काव्यालंकारविशेषः / उपलक्षणत्वाद्यमकं दीपकं च / जापकं दर्वी सुगन्धिद्रव्यविशेषश्च / अर्थप्राधान्यात् कालापकमपि / दा च पंलिङ्गोऽप्ययमित्येके / जालकं कुड्मलम् / वेणुकं गजयोत्रम् / गैरिकं धातुविशेषः / कारकं कादि / गुणवृत्तिस्त्वाश्रयलिङ्गः / वास्तुकं शाकविशेषः॥१३॥ रुचकं धान्याकनि शलाकालीकालिकशल्कोपमूर्यकाल्कम् // कवककिबुकतोकतिन्तिडीकैडू छत्राकत्रिकोल्मुकानि // 14 // (अव०) रुचकं चन्दनपेषणी शिला। धान्याकं अल्लुका / अर्थप्राधान्यात् धानेयकम् धान्यकं धानीयकमपि। निःशलाकं रहः / अर्थप्राधान्याजनान्तिकमपि / अलीकं ललाटम् अलिकं च / शल्कं खण्डम् / उपसूर्यकं परिवेषः / अल्कश्च
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy