SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः .307 वृत्तिभेदवैचित्र्यं चाकिञ्चित्करम् / श्रुतिदुष्टादिवर्जनं च किमर्थम् / तेन रसभावनाख्यो द्वितीयोऽपि व्यापारो यद्वशादभिधापि विलक्षणैव / तच्चैतद्भावकत्वं रसान् प्रति यत् काव्यस्य तद्विभावादीनां साधारणत्वापादनं नाम / भाविते च रसे तस्य भोगो योऽनुभवस्मरणप्रतिपत्तिभ्यो विलक्षण एव दूतिविस्तरविकाशनामा रजस्तमोवैचित्र्यानुविद्धसत्त्वमयनिजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणः परब्रह्मास्वादसविधः स एव च प्रधान- 5 भूतोंऽशः सिद्विरूप इति / तथा चाह अभिधा भावना चाऽन्या तेंद्भोगीकृतिरेव च / अभिधाधामतां याते शब्दार्थालङ्कृती ततः // ततोऽशत्रयमध्यादित्यर्थः / भावनाभाव्य ऐषोऽपि शृङ्गारादिगणो मतः। तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः / / इति / तत्र इति तेषु पक्षेषु / पूर्वपक्षः इति / स्थाय्येव विभावानुभावादिभिरुपचितो रस इति प्रथमो व्याख्याप्रकार इत्यर्थः / अयम् इति / अपरे हि व्याख्याप्रकाराः केचिदुपाध्यायभट्टतोतेनैव निरस्ताः / केचिच्च कथञ्चिदभ्युपगम्यन्ते / प्रथम एव च प्रकार इदानी हेयतया चक्षुषोरग्रतः परिस्फुरित इतीदमा तस्य निर्देशः / 15 तषणम् इति / विभावाद्ययोगे इत्यादि उपायवैलक्षण्यादिति / यथा प्रतीतिमात्रत्वेनाविशिष्टत्वेऽपि प्रात्यक्षी आनुमानिकी आगमोत्था उपमानप्रभवा प्रतिभा न कृता योगिप्रत्यक्षजा प्रतीतिरुपायवैलक्षण्यादन्यान्यनामिका, तद्वदियमपि प्रतीतिचर्वणास्वादभोगापरनामा भवतु तन्निदानभूताया हृदयसंवादाद्युपकृताया विभावादिसामग्र्या लोकोत्तररूपत्वादित्यर्थः / रसः इति रसः स्यान्न तृतीया गतिरिति सम्बन्धः / तच्च नित्यत्वम- 20 सत्त्वं च रसस्य भवतापि नाभ्युपगम्यत इत्युत्पत्त्यभिव्यक्ती कथञ्चिदङ्गीकर्तुमुचिते इत्यर्थः। प्रतीतिरप्यभ्युपगन्तुं योग्यैवेत्याह- न चाऽप्रतीतम् इति / किन्तु पिशाचवदव्यवहार्यमेव भवेदित्यर्थः / गुणानाम् इति / सत्त्वरजस्तमसाम् / संसर्गादिः इति / यथा भावनानियोगादिप्रधाने शास्त्रे फलस्यापूर्वलक्षणस्य प्रधानस्य भावनादेवैकत्वात् संसर्गो भेदो वा वाच्यार्थ- 25 स्तद्वदेवात्र व्यापारप्रधाने काव्ये नियतश्रोतृगतप्रतिष्ठालक्षणसिद्धिपरमफलहेतोश्चर्वणास्वादापरपर्यायभोगलक्षणस्य फलस्य करणादेवैकत्वात् शृङ्गारादी रसः काव्यार्थो मत 1. कर्तरि षष्ठी // 2. भोगीकरणम् // 3. अभिधैव धाम ययोरभिधाया उपरीत्यर्थः // 4. शोभावचनोऽलङ्कतिशब्दस्तेन दोषाभावो गुणाश्च गृहीताः // 5. अपिः पुनरर्थे // 6. मीमांसारूपे // .7. दृष्टान्तद्वयं वक्ष्यमाणदार्शन्तिकस्य // 8. अयं सहृदय इत्येवरूपा //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy