SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 304 कल्पलताविवेके उद्वेगः पञ्चमे ज्ञेयो विलापः षष्ठ उच्यते / उन्मादः सप्तमे ज्ञेयो भवेद् व्याधिरथाष्टमे। नवमे जडता प्रोक्ता दशमे मरणं भवेदिति // दशावस्थः कामोऽभिहितः / तत्राऽपि प्रत्यवस्थमुत्तरोत्तरप्रकर्षतारतम्यसम्भवात कामावस्थासु दशस्वसङ्ख्याताः शृङ्गाररसरतिभावादयः प्रसजेयुरिति षष्ठः 6 / 5 किञ्च रसभावानामुत्तरोत्तरक्रमेण प्रकर्ष एव प्रसज्यते / अथ च शोकक्रोधादीनां कालवशात् कारणवशाच्च विपर्ययो दृश्यत इति सप्तम इति सप्तहेतवः / यदि वा प्रथमो द्वितीयस्य हेतोहेतुरिति षडेव / तदानीं हि द्वितीयस्य हेतोरित्थं व्याख्यापूर्वमिति विभावाद्ययोगावस्थायां रत्यादीनां रत्यादिशब्दरभिधेयता काव्ये प्रसजतीति / तस्मादिति यस्माल्लोलटप्रभृतिव्याख्यानमसमीचीनं तस्मादन्यथा व्याख्यायत इत्यर्थः / अनुकर्तृस्थत्वेन 10 इति नटस्थत्वेन / लिङ्ग इति लिङ्गबलं हेतुसामर्थ्य गम्यगमकभावलक्षणः संयोगः सम्बन्ध स्तस्मात् / प्रतीयमानः इति / अनुमीयमानोऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनाऽन्याऽनुमीयमान विलक्षणस्तत्रासन्नपि सामाजिकानां चय॑माण इत्यर्थः / स्थायीभावः इति / स्थायित्वेन सम्भाव्यमानो रत्यादिर्भावः / अनुकरणरूपत्वाद् इति अनुकार्यगता हि चित्तवृत्तिरनेकस्वभावा विभाव्यते अनुकरणरूपा तु परमास्वादरूपैवेत्याशयः / काव्य इति / 15 सेयं ममाङ्गेष्वित्यादिकाव्यबलात् / ननु वाडवेनेत्यादि काव्यबलादपि स्थाय्यवगतिः सम्भवति, तत्कथं विभावादीनां त्रयाणामेव हेतुत्वमुक्तं ननु स्थायिनोऽपीयाह / स्थायी तु इति / अनुसन्धेयः इति अनुसन्धातुं शक्यः / वाडवेनेव इति / अस्य पूर्वमम् / ___ विवृद्धात्माप्यगाधोऽपि दुरन्तोऽपि महानपि। ___एतद्वाक्यं कृत्यारावणे रामेण स्वशोकस्याऽभिधायकमुक्तं नाभिनयः / शोकेन 20 कृतः इति / अस्योत्तरमर्द्धम् / ___हृदयस्फुटनभयार्ते रोदितुमभ्यर्थ्यते सचिवैः / / इदं तापसवत्सराजे विनीतदेववाक्यमुदयनगतं शोकमभिदधाति नाभिनयः / एतद् व्यतिरेकेणाह भाति पतितो लिखन्त्यास्तस्या वाष्पाम्बुशीकरकणौधः / 25 स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि // अत एव इति / यतः काव्यबलादपि स्थायी नावगन्तुं शक्यते / भिन्नविभक्तिकमपि इति / आस्तां विभावानुभावव्यभिचारिस्थायिसंयोगादित्येकविभक्तिकत्वेन 1. नटे // 2. नाटके //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy