SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 1293 निद्रोच्छेदोऽर्द्ररात्रादावपि / सशस्य दर्शनं श्रवणं वा / चिन्ता प्रणिधानम् / अभ्यासः पुनः पुनः परिशीलनं अवलोकनमिति सदृशस्य / सुखदुःखमिति तजनकमित्यर्थः / विभावितमिति पटुप्रत्ययपरिगृहीतत्वमाह // 11 // ..धृतिर्नाम विज्ञानश्रुतविभवशौचाचारगुरुभक्त्यधिकमनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते / तामभिनयेत् प्राप्तानां विषयाणामुपभोगादप्राप्तोऽतीतोपहतविनष्टानामननु- 5 शोचनादिभिरनुभावैः / अत्रार्ये विज्ञानशौचविभवश्रुतशक्तिसमुद्भवा धृतिः सद्भिः / भयशोकविभावाचे रहिता तु सदा प्रयोक्तव्या // प्राप्तानामुपभोगः शब्दस्पर्शरसरूपगन्धानाम् / अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु // .10 विज्ञानं विवेकज्ञानं, श्रुतविभवो बाहुश्रुत्यं, शौचाचरणं तपःसेवादि, अधिकस्याऽर्थस्य मनोरथाविषयस्य लाभः मनोरथस्य चार्थस्य लाभः / मनोरथ ईप्सितः / मन एव रथः प्राप्त्युपायो यस्मिन् / अत्र कस्यचिद्विषयता, ईप्सितलाभे हि धृतो भवति सन्तुष्टत्वात् / कस्यचित् करणता, क्रीडया विनोद्यमानोदुःखितो धृतिं लभते / कस्यचिदुभयरूपता, विज्ञानश्रुतविभवादेरिव प्राप्तानां विषयाणामुपभोगमवलम्ब्य यदप्राप्तादीनामननुशोचनं तदादिभिरनुभावैरिति 15 सम्बन्धः / तेन प्राप्तोपभोगपूर्वकत्वं सर्वेषामनुभावानामित्युक्तं भवति / न तु पृथगनुभावता प्राप्तभोगस्य / अप्राप्तः स्थितोऽपि तस्याऽविषयः / अतीतः स्थितोऽपि तद्विषयत्वादपगतः। उपहतो जीर्णादिरूपतां प्राप्तः / विनष्टो ध्वस्तः // 12 // .. ब्रीडा नाम अकार्यकरणात्मिका गुरुव्यतिक्रमणाऽवज्ञानप्रतिज्ञाऽनिर्वहणपश्चात्तापादिभिर्विभावैः समुत्पद्यते / तां निगूढवदनाऽधोमुखविचिन्तनविलेखनवस्त्राङ्गुलीयकस्पर्शन- 20 नखनिस्तोदनादिभिरनुभावैरभिनयेत् / अत्रार्ये / किञ्चिदकार्य कुर्वाण एव यो दृश्यते शुचिभिरन्यैः / पश्चात्तापेन युतो वीडित इति वेदितव्योऽसौ // लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् / वस्त्राङ्गुलीयकानां संस्पर्श वीडितः कुर्यात् // . . 25 अकार्यकरणशब्देन तज्ज्ञानमुच्यते / अकरणीयं मयैवं कृतमित्येवंभूतविज्ञानस्वभावेत्यर्थः / अत एव स्त्रीबालादेरपूर्वपुरुषसन्निधौ लज्जा दृष्टा, विनाऽप्यकार्यकरणात् / अकार्य. करणादात्मा यस्या इत्यन्ये / तत्पक्षे च गुरुव्यतिक्रमणादिप्रपञ्चमात्रं यत् पूर्व स्वयं त्यक्त 1. बहुश्रुतत्वम् // 2. एतेषु विभावेषु मध्ये // 3. यथा // ... ... ... .. .
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy