SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 281 द्वयं परग्रहणेनैव सगृहीतं, किमेतन्निमित्तेन विधेति त्रिप्रकारत्वदर्शनलक्षणेनादरेण, सदसद्योगलक्षण एक एव हि प्रकारोऽत्र दर्शयितुं न्याय्यः / सदसताम इति / सतोश्चासतोश्च सदसतोश्च सदसतामित्यर्थः / इत्येवमादिकः इति सदसतोर्योग इत्यत्रान्वयोऽप्येवमेव विधेयो योगशब्दः प्रत्येकमभिसम्बध्यते तेन सतोर्योगोऽसतश्च योग इत्ययमर्थः सम्पद्यते / केन योग इति चेत् सन्निधानात् सताऽसता 5 वा योगे सतोर्योगः / सदसतोश्च योग इति द्विधात्वम् असतोऽपि सताऽसता वा योगेऽसत्सतोः योगोऽसतोश्च योग इति द्विप्रकारतैव / तत्र सदसद्योगोऽसत्सद्योगश्चेति द्वावप्येकरूपावेवेति सतोर्योगोऽसतोर्योगः सदसतोश्च योग इति त्रिधा समुच्चयो न्याय्यो भवतीत्य / दुर्ग त्रिकूटः इति / अत्र पूर्वार्द्र साधूत्कृष्टमुत्तरार्दै चासाधु / प्रस्फुरयन् इति / 10 इदमपि सुखावहवस्तूदाहरणम् / दुःखावहवस्तूदाहरणदिक् च प्रागेवास्माभिरुपदर्शिता / अन्येषां तु इति मतमिति शेषः / यदि च सदसतोर्योग इति योगशब्दे जात्या एकवचनं व्याख्यायते / ततो योगौ योगाश्चेति प्रतिपत्तौ न कश्चिन्मतभेदः / एषैव च व्याख्या युक्तिमती तथैवोदाहरणदृष्टेः / देशे इति क्षित्यादौ / एकतः इति सप्तम्यर्थे तसिः / तेन क्रियाद्रव्यगुणादिष्वेकत्र क्रियायां द्रव्ये गुणे जातौ वेत्यर्थः।। उभयापाश्रयः इति उभयं द्वे पदे बहूनि च पदानीति / अनुभयाश्रयः इति / अत्राप्युभयं तदेव किन्त्वेष विशेषः कुत्रचिद् व्यस्तं कुत्राऽपि समस्तमुभयं नाश्रय इति / तदाश्रयानाश्रयत्वं च द्योतकसद्भावासद्भावमात्रेण प्रतिजानीत इत्याह-त्रयः प्रतिपदम् इति / शुद्धा इति प्रतिपदाश्रितद्योतकत्वमेव वा उत्तरपदाश्रितद्योतकत्वमेव वा यत्रेत्यर्थः / मिश्रा इति पूर्वोक्तमुभयं मिश्रितं यत्रेत्यर्थः / विचिन्त्यमानम् इति / अत्र बहुनि पदानि इति 20 पदद्वये पदद्वये चोत्तरपदनिवेशी चकार इति चोभयापाश्रयत्वम् / दीपकेन इति / यत्र हि क्रियादिकमेकमर्थं प्रति द्रव्यादीनामनेकेषां परस्परनिरपेक्षाणां तुल्यकालं चीयमानता पश्चादाचीयमानता च / न च समुच्चयान्वाचयद्योतकं किञ्चित् पदमस्ति / सदपि वा तन्नो- . द्भूततया तैद् द्योतकं भवितुमलं स सर्वोऽपि दीपकस्य विषयो भवितुमर्हति / आयेषु त्रिषु प्रभेदेषु समुच्चयादेरुद्भूततया प्रतीयमानत्वादनुभयाश्रयप्रभेदे चेतरेतरयोगसमाहारयोः पर- 25 स्परसव्यपेक्षपदार्थनिष्ठयोर्निरपेक्षपदार्थविषयस्य दीपकस्य कुतः सम्भव इति निरवकाश दीपकमनुभयाश्रयं समुच्चयमन्वाचयं च बाधते निर्विषयतापत्तेरित्यस्याभिप्रायः / क्रिया द्रव्यविशेषाः इति / अनव्ययकृदभिहितो हि भावो द्रव्यवत् प्रकाशते / इति क्रियाणां 1. यथा व्याख्यातं लतायाम् // 2. पदम् ख पुस्तके एव // 3. समुच्चयान्वाचय-ख एक दृश्यते // 15
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy