SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 273 विपुलवक्षःस्थलांसभुजावुपमेये / - विभाग- इति / एकस्य वाच्यस्य यौ विभागौ तल्लक्षणयोर्वाक्ययोः / अन्यस्योपन्यसनम् इति / अनेन यदन्यस्येत्यादिसूत्रव्याख्यानं प्राक्तनमुल्लिखितम् / समर्थकस्येति पूर्वमिति च द्वयमपि वक्ष्यमागन्यायलब्धम् / पूर्वार्थानुगतः इति / अर्थान्तरन्यासप्रकारव्याख्यानद्वयेऽपि योजनीयम् / तथा च इति / वाक्यद्यस्थितये वाक्यैकतालक्षणप्रदर्शकं 5 15 यदि तु विभागौ निराकाङ्क्षौ तदा द्वे वाक्ये, अर्थद्वयवत्वादित्यर्थः / तथाहि इति / समथकस्येति पूर्वोपन्यास इति च यदाक्षिप्तमुक्तं तत्रान्यशब्दाभिधानगोचरतयेति अञ्जसत्वादिति च हेत्वोरुपदर्शनपरम् / अन्यशब्दव्यापारगोचरो ह्यर्थोऽप्रस्तुत एव / स चात्र समर्थक एव भवति / समर्थ्यसमर्थकभावेन प्रस्तुताप्रस्तुतयोरिह सम्बन्धस्याभ्युपगम्यमान- 10 त्वात् / पूर्वार्थानुगतः इति प्राकरणिकार्थानुगतः / पूर्वेणार्थेन इति का / अन्यस्येत्यविशेष इति / अन्यस्योपन्यसने पूर्व पश्चाद्वेति विशेषेणानभिहितः / न चात्र इति / उदितादित्यस्य ऋते इत्यनेन सह सम्बन्धं विघटयितुं ऋते इत्यस्य चाध्याहृतेनार्थेन सम्बन्धमुपदर्शयितुमुक्तम् / प्रस्तुताद् इति अर्थलब्धात् / अर्थान्तरन्यास इति पूर्वार्थानुगत इति च यथावस्थितमेवात्र सम्बन्धनीयम् / बन्धच्छायान्तरम् इति समर्थकोत्तरोपन्यासात्मकम् / समर्थक-इति अध्याहृतायाः। एतदेव इति / उदात्तशब्दवाच्यत्वमात्रमभिप्रेत्यैतदेवेत्युक्तम् / वास्तवभेदवशात्त्वन्येन वाच्यार्थेनोदात्तान्तरमवतारितमित्यर्थः / तद्वदिहापि इति / तत्र हि उदात्तशब्दवाच्यत्वमुभयोरस्तीत्युदात्तशब्द उभयानुयायी / इह च सामान्यलक्ष गलक्ष्यत्वमुभयोरस्तीत्युपन्यसनमर्थस्य यदन्यस्य सोऽर्थान्तरन्यासः। पूर्वार्थानुगतः इति। सामान्यलक्षणमुभयानुयायि / 20 तत्र शक्तिमान् राम इत्यादि वाक्यार्थद्वयमुदात्तरूपं वाच्यम् , इह च सामर्थ्यलब्धसमर्थकपूर्वोपन्यासलक्षणं समर्थकोत्तरोपन्यासलक्षणं चार्थान्तरन्यासद्वयं वाक्यार्थीभूतं लक्ष्यम् / ततश्च ऋते इत्यनेन द्वितीयवाच्यसंसूचकेन सामान्यलक्षणे सम्बन्ध्यमानेन समर्थकोत्तरोपन्यासलक्षणोऽपरोऽर्थान्तरन्यास आनीत इत्यर्थः / . वक्ष्यति इति अत्रैव / तस्मादिति हेत्वर्थप्रकाशात् या सिद्धिस्तदर्थमित्यर्थः / 25 अतिशयेन इति / सामर्थ्याक्षिप्ते हि समर्थ्यसमर्थकभावे निरतिशयाऽर्थान्तरन्यासस्य लक्ष्येऽभिव्यक्तिर्भवति / कथयतीति हि शब्दः / सा चेति अतिशयेनाभिव्यक्तिः। समर्थ्यसमर्थकभावेन इति। साक्षाद्धिशब्दोक्तेन / प्रकारान्तरेणेति / अर्थाक्षिप्तसमर्थ्यसमर्थकमावलक्षणेन। अभिसम्बन्धे इति / अभिव्यक्तिरनुपपन्ना स्यादिति सम्बन्धः / अत्र इति अर्थान्तरन्यासे / 1. भवति // 35
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy