SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 271 कयाचित् खण्डितया निर्भरप्रवृत्तमन्युपरवशयाऽपि धाष्टात् परिरक्षिततञ्चिह्नया प्रातिकूल्येनानुवर्त्तनयैव किं मया भृकुटिरारचितेत्येवमकुपितत्वस्य प्रतिकूलकारणान्युपन्यस्य काका तत्त्वविकल एवोपालम्भोऽभिधीयत इत्यर्थः / स्वरूप- इति / अनयैव दूरीकृतकोपस्थायिभावया आनुकूल्येन स्वरूपमात्रप्रतिपादनपरतया सर्वस्यैवैतस्योक्तत्वादित्यर्थः / नास्त्यस्य इति / तस्मात् कदम्बवातागमिता अपि न गमिता इत्यादी कारणाक्षेपे तात्पर्यम् / - तेषाम् इति मते इति शेषः / ज्ञप्त्यपेक्षः इति / यथा हि कार्यमुत्पद्यमानमेव कारणप्रतिषेधेन बाध्यत इति भवत्युत्पत्त्यपेक्षस्तत्र बाधस्तथा नोत्पद्यमान एव कारणप्रतिषेधः कार्योत्पत्या बाध्यते, अपि तूत्पन्नस्य तस्य बोधस्तया ज्ञाप्यत इति कारणप्रतिषेधबाधो ज्ञप्त्यपेक्ष एव / ज्ञप्तिश्चेति कारणप्रतिषेधबाधज्ञानं च / दवीयसीति पश्चाद्भावित्वेन हेतोरिति कारणात् / यस्माद इति यतः / साङ्गत्ये इति सङ्गतावित्यर्थः / असंमृष्ट 10 -इति / सम्मार्जनं विनाऽपि निर्मलत्वं गगनस्य / अप्रसादित इति / वस्त्रादिस्रावैणेनानपनीतरजःसम्पर्ककालुष्यम् / अत्र इति अनयोः / वक्तम इति / तस्या वक्त्रं वपुश्चैकान्तभव्यमपि मम भव्याभव्यरूपं निष्कारणमेव भवतीत्यर्थः / सा इति / कारणान्तरविभावना स्वाभाविकत्वविभावना च तेन षड्विधेत्यर्थः / ताम् इति उभयरूपां विभावनाम् / तया इति / या गीभङ्गी तां विचित्रां विभावनांप्रयोजयति तयेत्यर्थः / अन्यया इति / अविभावना- 15 रूपया / णमह इति / नमत अवर्द्धितमपि तुङ्गम् , अप्रसारितमपि विस्तीर्णम् , अनवनतमपि गम्भीरम् , अप्रलघुकमपि परिसूक्ष्मम् , अज्ञातपरमार्थमपि प्रकटं मधुमथनम् / उत्तरयोः इति षष्ठी, उत्तरार्द्राक्तयोरित्यर्थः / प्राग इति / पूर्वार्दोक्ताभ्यां स्वाभाविकीभ्यामविभावनाभ्यामुत्तरार्दै कारणनिर्निमित्तगीर्भङ्गीप्रतिपादिताभ्यां विभावनाभ्यां कृत्वा निर्मथ्य प्राक्तनस्वाभाविकी क ?]विभावनागतोऽनन्यथाभावापत्तिलक्षणो विशेष उक्तः / / 20 विभावनयैव इति / आरोपितस्वाभाविकत्वं विभावनया / कारणान्तरविभाबनायाः विशेषः इति / इतरदीपेभ्यो निर्निमित्तोपकारकारित्वपतङ्गवाताधनभिभवनीयत्वएकान्तदीप्रत्वादिलक्षणं वैचित्र्यम् / साद्गुण्यस्य इति प्रगुणतायाः / कार्योत्पत्तिकाल इति / अन्यदा प्रभवतो विगमे यतो गुणान्तरसंस्तवोऽर्नूदितः / ततस्तदर्थपर्यालोचनादन्यदेत्यस्य प्रतियोगी कार्योत्पत्तिकाल एव व्याहतुमुचितः / ततश्च कार्योत्पत्तिकालादन्यस्मिन् 25 कार्यानुत्पत्तिसमये प्रभवतः कारणवैगुण्यस्य प्रहाणेऽर्थात् कारणसाद्गुण्ये सति यत् कार्यानुत्पत्तिवचनं सा विशेषोक्तिरित्ययमर्थोऽवतिष्ठते / 1. न कारणस्योत्पद्यमानस्यैव सत्ता कार्योत्पत्त्या क्रियते // 2. कारणसत्ता // 3. गलनम् // 4 विभावनारूपा // ५.आरोपितं स्वाभाविकत्वं यया // 6. -भू- क.॥
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy