SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः तदैकप्रयत्नोचार्यत्वाभावात् कुतस्तदिति / अतश्चाञ्जसत्वमत्रैकप्रयत्नोचार्याणां शब्दानाम् / उपमानं द्युत्कृष्टगुणं भवेदुत्कृष्टगुगत्वं च तेषां स्वभावतोऽर्थद्वयप्रतिपादनशक्तिमत्तयेति / मिथः प्रतिपाद्य- इति। शब्देन शब्दान्तरप्रतिपत्तिर्वचःश्लिष्टे यथा विधीयते तथा नात्रेति भावः / छायावन्त इत्यत्र तुल्ययोगिता / छायया मार्गदुमाणां महतां चोभयेषामपि वर्ण्यमानत्वम्, उत दीपकच्छाययाऽन्यतरेषामिति पक्षद्वयमेव सम्भवति / तदाह-प्राकरणिकैकविषय- 5 त्वम् इति / यच्चाप्राकरणिकैकविषयत्वं तस्य शङ्काऽपि नात्राविर्भवति / यत्र हि कस्मिश्चित् प्रधानत्वेन वर्ण्यमाने तदङ्गत्वेन द्वयोरर्थयोः कयोश्चिवर्णना भवति तत्रैव तस्य सम्भवो नान्यत्रेति / अत्र इति उभयत्रेत्यर्थः / उच्यमान- इति / उच्यमानो हि धर्मः एकत्र लक्ष्मीवत्तादिरन्यत्रोपरिसमारोहणधर्मतादिरित्यसाधारणधर्मत्वात् कुतः सादृश्यं कुतश्चोपमा पदं बध्नीयात् / उन्नतादिश्च शब्दग्राम उभयत्र साधारण इति तस्मात् साम्यं प्रति- 10 भातीत्यर्थः / मालामुत्पल --इति / अत्र यदा वा शब्द उपमानवृत्तिस्तदाऽयम् उपमाप्रतिभाहेतुरुभयश्लेषः प्राकरणिकाप्राकरणिकनिष्ठः / यदा चार्थवृत्तिस्तदायं तुल्ययोगिताप्रतिभाहेतुरुभयश्लेषः प्राकरणिकैकविषयः / पृथु[रु?]रसि- इति / अत्र रूपकप्रतिभाहेतुरुभयश्लेषः प्राकरणिकाप्राकरणिकनिष्ठः / हरितः इति / अत्रोपमाप्रतिभाहेतुरुभयश्लेष उभयनिष्ठः / चित्तहर- इति / अत्रै देशविवर्तिरूपकोत्प्रेक्षाप्रतिभाहेतुरुभय- 15 श्लेषः प्राकरणिकाप्राकरणिकनिष्ठः / धर्मभेदात् इति / धर्माः स्वरविशेषादयः / वाक्याथ- इति / वाक्यार्थद्वितयमात्रश्लेषविषय इत्यर्थः / तेन न वाक्यार्थद्वितयमात्रश्लेषं प्रतिपादयामोऽपि तु प्राकरणिकत्वाप्राकरणिकत्वविशिष्टमेव श्लेषमिति सम्बन्धः / शेषं सुगमम् / अबिन्दुसुन्दरीत्यत्र इति / द्वितीयवाक्यस्थेनाद्यदातत्वमित्यनेन सम्बन्धः / उपमानत्वात् इति पूर्वपदस्येत्यर्थः / तस्य इति पूर्वपदस्यो- 20 पमानवाचिनः / इत्यादौ इति अलङ्कारान्तरप्रतिभाव्यतिरिक्ते विषय इत्यर्थः / श्लेषे इति / तथाहि इति। सङ्करत्वोपमारूपत्वयोः प्रदर्शनार्थमिदम् / उपदर्शितः इति / ते गच्छन्तीति श्लोकभागः समानप्रयत्नोच्चार्यशब्दनिबद्ध इत्यर्थः / एवं च इति अनेनैव प्रकारेणेत्यर्थः / यथैव पल्लवेत्यादौ सामान्यशब्दवाच्यत्वेऽप्युपमैव न्यायवती, तथैवाऽऽसारधारेत्यादौ भवदुक्तमपि 25 परम्परिताऽपरपयायमेकदेशविवर्तिरूपकं युज्यते, नान्यथा। तथा हि सामान्यशब्देनाभिधीयमानेऽर्थये प्रसाधनमेव प्रसाधनमिति रूपणं, तन्निमित्तमेव चाऽऽसारधारादीनां विशिखादिभी रूपणमुपपद्यत इति सामान्यशब्दवाच्यत्वमस्य रूपकस्यैव मौलं निमित्तं न श्लेषस्य / 1. प्रतिपाद्यते ग. 2 //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy