SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 256 कल्पलताविवेके नामरूपकमिदं शुद्धरूपकेषु शब्दार्थभूयिष्ठरूपकभेदः / महुमहदंसणयोग्गम् इति / मधुमथनदर्शनयोग्यं तन्नाभ्याधारत्वाद् ब्रह्मोत्पत्तिकमलस्य / सुप्तप्रबुद्धेन हरिणा प्रथममाकाशावलोकनाच्च / द्वयोस्तु इति / उपमां परित्यज्य यद्यवयवानामपि रूपणं क्रियत इत्यर्थः / घणसमय- इति / घनसमयाकृष्टावनतविमुक्ता, वर्षासु निम्नत्वात् शरद्युन्नतत्वादिशामिति / 5 तदुभयम् इति / धुतमेघमधुकराः दिशः शाखा इति नभः पादप इति च / अन्यपदार्थ-इति। धुतमेघमधुकरा इति बहुव्रीहिणा दिक्शाखापदार्थनिष्ठेन दिक्शाखानां सावयवत्त्वम्। नभःपादपस्य शाखा इति षष्ठीसमासेन च नभसः पादपरूपेण रूपितस्य तन्निमित्तम् / अनन्तरं दिशां शाखारूपेण रूपणमिति नभसः पादपरूपणोपक्रमावसरे तद्गतानामवयवानां न रूपणमिति नभःपादपस्य निरवयवत्वं प्रत्याज्यते / 10. एषा इति अभिधा इति / असावपह्नुतिसंज्ञेत्यर्थः / भास्वान् इति नेमावादित्यचन्द्रावपि तु शाणावित्यर्थः / रक्षकावगतिहेतोः इति रोमोद्भेदलक्षणात् कार्यात् प्रागेवेत्यर्थः / एकस्मिन् इति / एकस्य वाक्यार्थस्य प्रतिपादनादित्यर्थः / अनेकार्थता इति / विभां करोतीत्येकमेव हि यौगिकमर्थं प्रतिपादयन् विभाकरशब्दः साधारणार्कभूपलक्षणार्थ द्वयप्रतिपादको भवतीति उदयादिशब्दा अप्येकार्थप्रतिपादका एव सन्तोऽनेकार्थाः / 15 तथा ह्युदयलक्षण एक एवार्थ एकत्रोद्गमोऽपरत्रोन्नतिः / दिशः ककुभस्तत्स्थाः प्रजाश्च / मालिन्यं कालिमा कलङ्कश्च / निद्रा स्वापोऽप्रबोधश्च / क्रिया यमनियमादयः पाशुपाल्यादयश्च / स्वैराचारोऽभिसरणादिर्मात्स्यन्यायश्च / तेजो ज्योतिः प्रतापश्च / तत्सदृशत्व -इति / अर्थकथनपरमेवैतत् / यथा हि गोत्ववृत्तेरपि गोशब्दाद् गोर्भावो गोत्वमिति भावप्रत्ययस्तयेहापीति / उभयथाऽपि इति / यद्युपमेयस्योपमानरूपता तदा रूपकमथो20 पमानसादृश्यं तदोपमेति नामुना श्लिष्टेन कश्चिदर्थः / न कथञ्चिज्जन्यते इति / अपि तु प्रतिपाद्यत इत्यर्थः / किञ्च लक्षणं रूपकेपीदम् इत्येष वक्ष्यमाणश्लोकः किलैवं यवृत्यन्तरकारकैाख्यायि-काममिदं श्लेषलक्षणं रूपकेऽपि विद्यते, किन्त्वत्र रूपके युगपदुपमानोपमेययोः प्रयुक्तिरिष्टेति तन्न युक्तमित्याह- यदप्येतदाशङ्कितम् इत्यादि / ऐकपद्यम् इति समासम् / एतेनेत्यादि असमासेऽपि रूपगाया दृश्यमानत्वादेकप्रयत्नोच्चार्यशब्दता25 याश्चासम्भवाद्रूपकस्य श्लिष्टाद्भेदप्रदर्शनपरतया शीकराम्भोमदसृज इति यनिदर्शनं वक्ष्यते तन्नोपपद्यत इत्यर्थः / अपि च श्लेषादेवार्थवचसोरित्यादिवक्ष्यमाणश्लोकः श्लिष्टस्य शब्दार्थद्वारकभेद१. -जो-ग. 2. // 2. नभः ख. पुस्तके एव / / 3. च असा-ग. 2. क. / 4. असमासे रूपणायाः ग. 2. /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy