SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 247 सम्भाव्यत इति शेषः / उत्प्रेक्षार्थ उपमार्थश्च इति / तेन सन्देहसङ्करालङ्कारः / एकतरस्य परिग्रहे निश्चायकप्रमाणाभावादित्यर्थः / / यथा इति / उपमाया एवोदाहरणप्रदर्शनार्थमिदम् / वक्ष्यते इति उत्प्रेक्षायाम् / उपमायामपि इति / तथा हि चन्द्र इव मुखमित्येवमादौ कान्तामुखस्य यद्यप्याह्लादकत्वादिगुणयोगो विद्यते, तथापि क चन्द्रगतं ह्लादकत्वमत्यन्तलोकोत्तरं क च कान्ता- 5 मुखगतं परिमिततरुणजनविषयत्वेन सम्भाव्यं, तथाऽप्यतिशयगर्भीकारेणैवाऽत्र साम्यापादनमुपमया क्रियत इति / सम्प्रदाय इति / लक्षणेऽनुक्तोऽपीत्यर्थः / अपनत्युपमा इति / प्रकृतस्याऽर्थस्य सादृश्ये सत्यप्रकृतरूपेण सम्भावनमुत्प्रेक्षेत्यपहृत्युपमे अर्थलब्धेऽतिशयवत्त्वं चोत्प्रेक्षालक्षण एव शाब्दमभिधास्यते / अनतिशयवती इति अनुत्कटा / कथम् इति / उभयत्रेवशब्दस्य विशेषणयोजनायामुत्प्रेक्षा, उपमानयोजनायां तूपमा भवत्वित्याशयः। 10 वयं तु ब्रूमः इति / ग्रन्थकाराऽभिप्रायेणेत्यर्थः / यदि ह्यत्रेवशब्दावुभावेप्युभयार्थवृत्ती न स्यातामपि त्वेक उत्प्रेक्षार्थोऽपरस्तूपमार्थ इति, तदा प्रथमोदाहरणे न समानयोगक्षेमस्वार्दूपमा,असम्भवोदाहरणवाक्येऽप्युत्प्रेक्षैव भवेत्तत्कथमुपमाऽसम्भवघटना स्यात्।अथान्यत्रेवशब्दमभिसम्बध्य 'द्वितीयोदाहरणेन समानन्यायत्वात् तत्र सा विधास्यते तर्हि प्रथमोदाहरणेऽपि दोषोंदाहरणवत्तत्सम्बन्धोऽन्यत्र दुर्निवार इति तत्राऽप्युपमा प्रसजति / द्वितीयो- 15 - दाहरणेऽपि चैवमेवोत्प्रेक्षेत्युभयार्थत्वमुभयोरपि बलादापततीति भावः / सङ्करालङ्कार एव इति / दोषोदाहरणे हि सन्देहसङ्करमभिप्रेत्य पक्षान्तरभाविन्यामुपमायामसम्भवघटना कृतेति तत्परिहारार्थमतिशयार्थत्वप्रदर्शनपरेऽस्मिन्नपीवशब्दसम्बन्धान्यथाकल्पनेन सन्देहसङ्कर एवोपदर्शितः / उत्प्रेक्षायाम् इति / सम्भावनायाम् / द्विविधः इति / उपमेयाधिक्ये ह्यर्थादुप- 20 मानस्य हीनत्वमित्युपमानहीनत्वाधिकत्वाभ्यां स्तुत्यमुपमेयं हीनत्वाधिकत्वरूपेण विपर्यस्यतीत्युभयप्रकारः / स्तुतिविपर्ययः इति / अयमुभयरूपोऽपि विपर्ययो जात्याश्रय उदाहृतः / प्रमाणाश्रयस्त्वत्रैतदोषनिराकरणावसरे च स्वयमेवोदाहार्यः / ननुपमीयते इति / दिङ्मात्रप्रदर्शनपरमिदम् / तेथा हि बहुप्रकारेष्वपि लिङ्गवचनभेदेषु पाणिकमलयोरधरविम्बफलयोश्च पुन्नपुंसकलिङ्गभेदः / अधरस्य विद्वमच्छेदभासां च पुंस्त्रीलिङ्गभेद एक- 25 1. उत्प्रेक्षा उपमारूप / ख. पुस्तके एव // 2. पुञ्जीभूतमिति / ख. पुस्तके एव // 3. जाज्वल्यमाना इवेत्यादि / ख पुस्तके एव // 4. सरः शरत्प्रसन्नमिति ख. पुस्तके एव // 5. घटना ख पुस्तके एव / 6. उत्प्रेक्षा उपमारूपत्वम् ख पुस्तके एव // 7. उदाहरणयोः ख. पुस्तके एव // 8. सन्देह ... कल्पनेन सन्देह इति पाठो नास्ति ग. 2 पुस्तके // 9. यथा ग. 2 //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy