SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 240 लोकप्रतीत्याश्रयणेनेषामुपमेय एव विश्रान्तिमभिमन्यमानान् प्रत्युभयत्राऽपि श्रौतमेव सम्बन्धं साधयति / अन्ये तु शास्त्रीयमुद्रयोपमानविशेषणा एवैत इत्युपमेयेऽपि तमेतेषां प्रतिपादयन्तीति न विरोधः / व्यतिरेचयन्ति इति / असम्बद्धं विदधति / देवदत्तेन तुल्य इत्यत्र हि उपमेय एव सदृशत्वलक्षणस्य स्वार्थस्य श्रुत्या विश्रान्तिस्तेन तत्सद्भावे आर्थी / 5 उत्तरपदभूता एव इति वृत्तिस्था एवेत्यर्थः / यथा देवदत्तनिभो यज्ञदत्तः स्थूल इत्यादि / इयं तु समासे आर्थी वर्तते इति तेन न गुणशब्दस्याऽप्यत्र लोप इति शेषः / सअल इति। इयं वाक्ये, पाठविशेषे तु समासे च द्रष्टव्या / अन्यद् इति / वाक्ये तद्वितगतैकद्विसङ्ख्यं वाक्यसमासतद्धितसुब्धातुकृद्गतत्रित्येकचतुढिंगणनं च / उभयत्र इति पूर्णालुप्तालक्षणे / उक्तिमात्रेण इति / वस्तुगतसाधर्म्यरहितेनेत्यर्थः / तत्कारि इति अनुकृतिकारि / 10 तदनुकृति-इति / ततस्तन्मुखकर्तृकानुकृतिसम्पादकं भवत्वित्यर्थः / तत इत्यस्य तदित्यस्य च सामर्थ्याल्लाभः / इति इति / समग्रवाक्यार्थोल्लेखे / उत्प्रेक्षया इति / अध्यासापेक्षयाऽत्र तृतीया / असतोऽपि इति / अनेनाऽतिशयो दर्शितः / वक्ष्यति हि- उत्प्रेक्षातिशयान्वित-इति / उद्गते इति / पदद्वयस्य समासाथ संक्षिप्तरुचित्वादेकमेव वाक्यं तन्त्रेण प्रयुक्तम् / इन्दुमिति इति / इतिशब्द एवमर्थोऽनुवावि क्रियाविशेषणम् / संशयविशेषः 15 इति निश्चयगर्भः / पूर्वो ह्यनिश्चयगर्भः / श्लेषप्रतिभोत्पत्ति-इति / तेन श्लेषायोपमा न तु श्लेषेणेत्यर्थः / तदानीं छुपमाप्रतिभोत्पत्तिहेतुरयं श्लेषः स्यानोपमा / उद्भटो ह्युपमाप्रतिभोत्पत्तिहेतुं श्लेषमिममभिमन्यते / तत्प्रातिकूल्यमनुसरता काव्यप्रकाशकृताऽपीयमित्थमभिहितेत्यस्माभिस्तथैव व्याख्याता / परमार्थतस्तु सङ्कर एवायमीदृश इति / द्वाभ्याम् इति शब्दाभ्याम् / श्लेषप्रतिभोत्पत्तिहेतुः इति / सभङ्गः शब्दश्लेषः सन्धानशब्द20 वाच्य इत्येवमेषा व्यपदिष्टा, तदत्रापि पूर्ववद् विचार्यम् / अभेदविवक्षया इति / नायि मुखमेवेदं चक्षुषी इमे इत्येवंरूपस्य असम्भवदोष इति मेधाविप्रभृतिभिरुक्तः / उत्प्रेक्षा इति / असम्भवन्नेवार्थ उत्प्रेक्षायामतिशयवत्तया निबध्यत इत्याशयः / आलक्ष्य इति / आ ईषत् / संसर्ग इति / संसर्गो वाक्यार्थः / सम्बन्धिभेद25 इति पदार्थविशेषोपक्रमेऽपि / वस्तु इति वाक्यार्थरूपम् / सधर्माणः इति / समान एको न तु दृष्टान्तत्वप्रसक्तेः सदृशो धर्मो यस्येत्यर्थः / केवलं कथितपदत्वस्य दुष्टतया 1. 'विश्रान्तिस्तेन... उभयत्रेति पूर्णा लुप्ता लक्षणे' इत्यस्य स्थाने विश्रान्तः। उत्तरपदस्था एवेति वृत्तिस्था एवेत्यर्थः। उभयत्रति पूर्णालुप्तालक्षणे' इति पाठः ग. 1, पुस्तके // 2. ख क. // 3. -क्ष्या - ग. 2 // 4. -भवि- ग. 2. // 5 अयं पाठो नास्ति. क. पुस्तके // 6. -त्पत्तीति सभङ्गः... इति पाठः ग 2 पुस्तके //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy