SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 238 कल्पलताविवेके प्रमाणाभावस्तत्र सन्देहसङ्करः, इतरत्र तूपमा रूपकं वा निर्णेष्यते / नवविकसित-इत्यादौ हि सकलशीतलभावमयी हि त्वं, तत्कथं दहसि इति विरोधच्छायया सप्रेमोपालम्भोक्तिः कमलादिष्वेवानुकूल्यं भजत इति रूपकस्य साधकतमतां प्रतिपद्यते / करादिषु तु न तथा प्रतिकूलेति नोपमा प्रति तस्या बोधकतेति साधकप्रमाणवशेन रूपकमेव सिध्यति 5 कुत उपमा / एवं च रूपकेऽपि वचनमधुनयनमधुकरमित्यादावुदाहरिष्यमाणे विषये साधकबाधकप्रमाणाभावात् सन्देहसङ्करे एव बुद्धिर्धावतीति चिन्त्यमेवैतदित्यर्थः / यतु प्रकरणवशादमुक एवालङ्कारोऽत्रेति कचिद्वक्ष्यते तन्निगमनिकामात्रमिति न किञ्चित् / उपमानाद् इति उपमित्यभिधानार्थम् / साधारणधर्मविषयम् इति / सामान्येऽर्थे वाच्ये प्रत्ययमुत्पाद्येत्यर्थः / श्यामा लतेव इति प्रियङ्गुलतेव / निर्मला हासे इति तु इति 10 अत्र हि तन्वी विशेष्या। अन्ये तु इति / समासोपमाप्रत्ययोपमे सरोजिनी चारुतनुः इति / अत्र चारुतनुत्वसामान्यवचनेन समासः / उत्कृष्टगुणेन इति / उत्कृष्टगुगमुपमानम् , न्यूनगुगं तूपमेयमिति लोकप्रसिद्धेः / सहृदयचमत्कारकारिणाम् इति / अलङ्कारप्रकरणादित्यर्थः / न सर्व सर्विकया इति / तेन गौरिव गौरित्यत्र नोपमा / जातिदेश इति गुणा 15 धर्मा जात्यादयस्तेषां लेशेन केनचिद्धर्मेण जात्यादिनेत्यर्थः / यथा अश्वकर्ण इव अजकर्णो वृक्षजातिरित्यादावपि / यदि वेति प्रथमे हि व्याख्याने सर्वसाम्यस्य व्यवच्छेदः / इह तु गुणबाहुल्यस्येति विशेषः / गुणलेशार्थस्तु स एव / उत्कृष्टन्यूनगुणता चेति चो हेत्वर्थे / तस्मादर्थस्त्वार्थः। यस्मादुपमानोपमेयहेतुरुत्कृष्टन्यूनगुणता पदार्थानां लोकप्रसिद्धेवसीयते तस्मादित्यर्थः / अभावाद् इति / न ह्युत्कृष्टगुगः कामिनीगण्डो न्यूनगुणश्चन्द्र इति लोके 20 प्रसिद्धिः / एवमर्थम् इति विपर्यासोपमा प्रकारसिद्धये / ननु ततः कुमुदनाथे नेत्येतत्तत्र नोदाहरिष्यते, तत्कथमेषा कल्पितेत्याशङ्कयाह -न ह्यद्गर्भत्यादेः इति / अत्र यद्यप्यादिशब्दः कल्पनात्वमात्रसामान्यमाश्रित्योल्लिङ्गितश्लोकसमर्पणेन चरितार्थस्तथाऽपि विशेषदर्शनेन दुर्विदग्धाः सुखेनैव रज्यन्त इत्यतद्गुणसंविज्ञानबहुव्रीह्याश्रयणेन क्षममधरेत्यादिसमानन्यायोभयविपर्यासविशिष्टकल्पनश्लोकसमर्पको व्याख्येयः / 1. बाधकता ग. 1 // 2. इति साधक...कुत उपमा / अयं पाठो नास्ति ग, 1 पुस्तके // 3. यत्तु प्रकरण...प्रत्ययमुत्साद्येत्यर्थः / अयं पाठो नास्ति ग. 1 पुस्तके // 4. निर्मला हासे... विशेष्या / अयं पाठः ग. 1 पुस्तके नास्ति // 5 सरोजिनी...नोपमा / नास्ति ग 1. पुस्तकेऽयं पाठः // 6. वा उत्कृष्टगुणेन इति / ग. 2 // 7. तु ग. 2. // 8 -विति ग 1.2. // 9. यदि वेति...अपरत्र तु प्रथमायाः इति पाठो नास्ति ग 1 पुस्तके // 10. तस्मादुपमानोपमेय-ग. 2. तस्मादपमानोपमेयत्व-क ग.२॥
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy