SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 236 कल्पलताविवेके सप्तम्युपमानेत्यादिनोपमानपूर्वस्य समासः / उत्तरपदलोपश्च कचिन्न भवतीति न कृतः / शशाङ्क-इति / अत्राऽपि पूर्ववत् समासः / केवलं तदानीमुपमानं च तत् पूर्वं चेति सूत्रे विग्रहः / ननूपमेयमात्रोक्तो कथमिदमुदाहियते, यावताऽत्रापि वाक्यकाले उपमानादीनां प्रतीतिरस्तीत्याशङ्क्याह-अश्वमुखी इति / स्फुट एव इति / यौगिके हि शब्देऽवयवार्थ5 पुरःसरा समुदायार्थप्रतीतिः / योगरूढौ त्ववयवार्थतिरस्कारेणाऽपि सत्येकत्रोपमानोपमेययोरुभयोः श्रौती प्रतीतिरपरत्र तूपमेयस्यैवेति स्फुट एव भेदः / विधुच्छब्देन इति / उपमानवाचिना। उपमा इति साम्यम् / तदन्वित-इति / कृदव्ययो हि भावे अभिधानादिति साम्यान्वितो भावो धात्वर्थो णमुलर्थ इत्यर्थः / भ्रान्तिः इति मोहः / अन्योऽपि इति / वाक्यसमाससुब्धातुगतचतुरूयेकप्रकारलक्षणोऽपि / अङ्गतया इति / उपमानं 10 ह्युपमेयार्थमुपादीयत इत्युपमानगतत्वेन रसस्योपमेयं प्रत्यङ्गतायां न विरोधः / सामान्य -इति। सत्त्वज्ञेयत्वप्रमेयत्वादिवत् / ज्यायान् इति प्रशस्यः / निर्दिष्टः इति गुणलेशेनेत्यनेन / शृङ्खला इति / रशनोधर्मवाचकस्य विवृतौ वाक्यसमासतद्धितेष्वेव सम्भवी / तत्राऽपि तद्धितः साक्षादुपादास्यत इति वाक्ये समासे चैषा निबध्यत इत्यर्थः समासे इति / साम्योपमानेत्यत आरभ्य सेति यावत् समासे इत्येतत् सम्बध्यते / 15 तथा इति / तथेत्यनेन तद्वाचिविरहेणेत्येतत् पदं तद्धिते कचिदेकस्याऽप्यलोपात् कचिद् धर्मस्य वैकस्य लोपात्तद्वाच्या सेत्यन्तं यावत् सम्बध्यते / केवलं कचित् कचिदुपमेयस्याऽपि विपि धर्मस्याऽपि सामर्थ्याल्लोपः परिगृह्यत इति / अथवा तथा-शब्द इत्थं व्याख्यायते / संक्षेपाभिहिता यथा वाक्ये समासे च निबध्यते तथा सुब्धातौ कृति तद्रिते च निबध्यत इत्युत्तरेण सम्बन्धः / केवलं संक्षेपाभिहिता प्रकारतद्धितोपदर्शनप्रसङ्गेन पूर्णा 20 प्रकारतद्धितोऽप्युपदर्शयिष्यत इति स यथायोगमेव सम्भन्स्यते / पूर्णा लुप्ता च-इति / संक्षेपाभिहिताऽप्येषेत्यपि शब्दादसंक्षेपाऽभिहिताऽपि हि समुच्चीयत इति / वाक्यसमास इति / यथेवसदृशादिपदयोगो वाक्यसमासयोरेव सम्भवतीत्यर्थात्तयोरुपलम्भः / संक्षेपाभिहिता प्रकारतद्धितोपदर्शनप्रसङ्गेन तदर्थवति, तद्वितस्तु साक्षादुपदर्शितः / भूयः इति / पुनः अनवस्थितम् इति / क्षगं-भूयः-शब्दयोस्तात्पर्यार्थोऽयम् / सामानाधिकरण्येन 25 इति उपमेयेनोपमानेन वा सह / अत्र इति एतयोः / लुप्तविभक्तिकत्वेन इति अव्ययत्वेनेत्यर्थः / उपमितिक्रिया इति / उपमितिक्रियालक्षणो विषयो ययोः / कर्मकरण-इति / उपमेयोपमानभावात्मकम् / / 1. रशनासाम्यवाचकेति केवलस्य धर्मवाचकस्य विवृतौ इति पाठः क. ग 2 पुस्तकयोः // 2. अथवा तथा-शब्द इत्थं व्याख्यायते / ......स यथायोगमेव सम्भन्त्स्यते / अयम् पाठः ग. 2. पुस्तके नास्ति // 3. इवार्थस्तुल्यार्थश्च /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy