SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 221 तावतामुत्पादः सम्भवति, किन्तु तर्णकश्लोकत्वं तत्र तुल्यत्वादुरुपपाद, धेनुश्लोकश्च न पृथग् भवतीति परिहृतेयमिति / समग्रेऽपि श्लोके षष्टिपदेभ्यः पदचतुष्टयपदाष्टकादियोगे उक्तात्युक्ता मध्या प्रतिष्ठासु प्रतिष्ठासु पञ्चसु जातिषु प्रत्येक विकल्पाः स्वल्पा एव सम्पद्यन्ते / गायत्रीजातेरारभ्य पुनः प्रतिजाति ये विकल्पाः सम्भवन्ति तैः परार्द्धानां परानीति परिगणनं सिध्यत्येव / तथाहि षष्टिपदेभ्यश्चतुर्विंशतिपदयोगे गायत्रीजातौ परार्द्धपरार्द्धानां 5 प्रयुते द्वे लक्षे द्वे अयुतानि त्रीणि सहस्राणि षट् शतान्यष्टौ परार्द्धपरार्द्धानि' चतुःषष्टिः परानां मध्यानि षट् अन्त्यमेकं सरित्पतयो नव शङ्करेको महासरोजानि नव निखर्वाण्यष्टौ खर्वमेकमब्जानि त्रीण्यर्बुदे द्वे कोटयो नव प्रयुतानि चत्वारि लक्षाण्यष्टावयुते द्वे सहस्रागि पञ्च शतानि षट् मध्यमेकमन्न्यानि पञ्च सरित्पतयो नव महासरोजमेकं निखर्वाण्यष्टौ खर्वाणि पञ्चाब्जमेकमर्बुदानि षट् कोटयश्चतस्रः प्रयुतानि चाष्टौ / 22368646191- 10 981329482560015901851648000000 तर्णकश्लोकाः समुत्पद्यन्ते / एवं च पूर्ववदेवोष्णिग्जातिप्रभृतावपि सुमतिभिः स्वयमुन्नेयम् यावत् शक्करीजातिः / इह च षट्पञ्चाशत्तमं मेति यत् पदं तस्य प्रतिपदमर्थत्रयप्रदर्शनसमये त्रिधाऽप्यपरशब्दावयवत्वं वक्ष्यते / तथा च चतुर्विशत्यादिपदसंयोगकल्पनासु सङ्गतार्था न भवेदिति मातीति मेत्येवंरूपः कश्चिदर्थः प्रदर्शनीयः। प्रस्तारादिपरिज्ञानार्थं च प्रथमे प्रकारजाते पूर्ववदेवाङ्कानां शून्यानां च 15 विन्यासो विधेयः / तेन च प्रस्तारो नष्टमुद्दिष्टं सङ्ख्या च पूर्ववदेव विनिर्देश्या / ___अपरैत्र प्रकारजाते समग्रमपि श्लोकमेकाक्षरपदविच्छेदेन तिर्यक्पङ्क्तया लिखित्वा चतुर्विंशतितमादिपदैश्चतुर्विंशतिपदं संयोगा ये समुत्थाप्यन्ते तदकाश्चतुर्विशात् पदादारभ्य षष्टितमं पदं यावत् प्रतिपदमधोऽधः प्रथमं तावद्विन्यास्याः / तथा हि- चतुर्विशेन पदेन त्रयोविंशतेः पदानां मिलितेन चतुर्विंशतिपदसंयोगा जायन्त इति तदङ्काश्चतुर्विंशस्य 2.) पदस्याऽधः षट्कद्विकशून्यचतुष्कद्वयाष्टकचतुष्कशून्यैककसप्तकत्रिकद्वयद्विकत्रिकनवकचतुएकत्रिकनवकत्रिकषट्काः शून्यचतुष्टयसहिता लिखनीयाः / 62044840173323. 9439360000 / ततश्चैते पञ्चविंशतिपदसमुत्पन्नचतुर्विंशतिपदसंयोगेष्वपि सन्तीत्येतान् पातयित्वा शेषाः पञ्चविंशतिपदसमुत्पन्नचतुर्विंशतिपदसंयोगाङ्का एककचतुष्काष्टकनवकशून्यसप्तषट्कैककषट्कचतुष्कैककपञ्चकनवकसप्तकद्वयचतुष्कषट्कपञ्चकचतुष्कद्वयषद-- 25 कचतुष्काः शून्यचतुष्टयसमन्विताः पञ्चविंशस्य पदस्याऽधो लिखनीयाः। 14890761641597746544640000 / एतावन्त एव च पञ्चविंशतितमेन पदेन सम्भवन्ति / अत एव चैषु सर्वेषु / पञ्चविंशतितमं पदं विद्यते न च पूर्वेषु एवमेतेषु पुर्वेषु च पतत्सु 1. परार्धपरार्धानीति क ख. // 2. अपरत्र च ग. // 3. चतुर्विंशतितमपञ्चविंशतितमादि-ग.॥ 4 -पदसंयोगा ग //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy