SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 206 कल्पलताविवेके नवति यावत् / चतुर्थपादविकल्पे च प्रथमे शून्यं द्वितीये प्रेथमान्त्यिविकल्पतृतीयपादान्यविकल्पप्रमितानां संहारं शतमेकं तृतीये शतोत्तरिकोपस्थिते द्वे शतेच एवं दशमे नवशतानि यावत् पुरः पुरो पुरो विन्यस्येत् / ततश्चैकादिषु क्रमेग शून्ययोश्च लोष्ठे दत्ते दश पुनरेकादिषु तृतीयपादद्वितीयविकल्पपुरोवर्तिनि दशके शून्ये च विंशतिः पुनः पुनरेका5 दिषु विंशत्यादौ शून्ये चैकविंशतेरारभ्य शतं पुनः पुनश्चैकादिषु तृतीयपादविकल्पानां पुरोवर्तिनि शून्यादौ शते च शतद्वयं शतद्वये च शतत्रयमेवं शतनवके सहस्रं प्रस्तीर्यते / एकादिषु क्रमेणैव खयोः प॑क्यादिशून्ययोः / शून्यादौ च शतादौ च लोष्ठं सञ्चारयेद् बुधः // खेन शून्यं पङ्क्त्या च दश लक्ष्यन्ते / क आद्यः को द्वितीय इत्यादिकया, पठित्वा 10 स्वेच्छयेत्यादिकया च कारिकया नष्टमुद्दिष्टं च निर्देश्यम् / केवलमधःशब्द उपलक्षणपरस्तेन पुरोवर्तिभिरप्यईन काचित् क्षतिः / सङ्ख्या चाधःपङ्क्तौ विन्यस्तानामङ्कानां मीलने यतीनां वा विकल्पानां वाऽधस्ताद्विनिवेशितैः / अङ्कः प्रस्तारसङ्ख्यां हि सङ्ख्यावानिर्दिशेत् पराम् // 15 अथवोपरि निर्दिष्टलोष्ठसञ्चारक्रमेण सङ्ख्या विनिर्देश्या / यदि वा-प्रथमार्द्धविकल्पान् दशतृतीयचतुर्थपादविकल्पान् दश दश च तिर्यपझ्या विन्यस्योपरि चैकैकं दत्त्वा स्थितेनागन्तुकं हन्यादिति न्यायोऽनुसतव्यः / अत्र हि प्रथमे दश स्थिता आहन्तव्यतया चोत्तरे दशागन्तुकाः / तैश्च यच्छतं तदप्युत्तरेषामाहन्तव्यानां दशानामपेक्षया स्थितमेव स्थितागन्तुकैश्च विकल्पैः क्रमेणैकैक एव श्लोक उत्पाद्य इत्युपरितन एकक ईप्सित 20 एव / ततश्च दशभिराहतैर्दशभिः शतं शतं चैकेन विभक्तं शतमेव शतेन चाहतैर्दशभिः सहस्रं सहस्रमप्येकेन विभक्तं सहस्रमेवेति // इह हि इत्यादि / 'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः / तत्र च सम्बोधनाग्रगेषु षट्स्वपि पदेषूपादीयमानेषु विंशत्युत्तरात् शतादुचीयमानैर्विसदृशप्रस्तारैर्दा विंशत्या / 123456 / 123465 / 123546 / 123564 / 123645 / 25 124356 / 124625 / 126345 / 126354 / 126435 / 132456 / 132465 / 132546 / 132564 / 132645 / 132654 / 135246 / 135264 / 135624 / 136245 / 136254 / 162345 / 123456 / 1. प्रथमा......संहारं इति ग. पुस्तके नास्ति // 2. तृतीये...... द्वे शते इति ग. पुस्तके मास्ति // 3. ग, पुस्तके नास्ति // 4. दशादि //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy