SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् षष्ठानां द्वितीयपञ्चमानां तृतीयचतुर्थानां च विकल्पानामेकत्र आद्रियमाणया अपरत्र परिहियमाणया एकया द्वाभ्यां तिसृभिः साम्यात् समत्वमवसेयम् / एवमुत्तरत्राऽपि वासना सुधीभिरभ्यूह्या / यदि वा अहवा पयाणि ठविउं अक्खे घेत्तूण वारणं कुजा / एक्किगदुगाइजोगा भंगाणं संख कायव्वा // 1 // इति वचनानुसारेण एकादिका एकोत्तरया वृद्धया सप्त यावद्यतीः स्थापयित्वा अक्खे इति लोष्ठान् प्रक्षिप्य सञ्चायं च एककद्विकादियोगसङ्ख्या कर्त्तव्या / तथा हि एकैकस्यां यतौ लोष्ठे सञ्चारिते एककाः सप्त प्रथमायां यतौ लोष्ठे दत्ते द्वितीयादिषु च क्रमेणैकैकस्यां द्वितीयलोष्टे सञ्चारिते षट् द्वितीयायां दत्ते तृतीयादिषु च तथैव पञ्च / तृतीयायां दत्ते चतुर्थ्यादिषु च तथैव चत्वारः / चतुर्थ्यां दत्ते पञ्चम्यादिषु च तथैव 10 त्रयः / पञ्चम्यां दत्ते षष्ठ्यादौ च तथैव द्वौ / षष्ठ्यां सप्तम्यां च दत्ते एक इति द्विकयोगा एकविंशतिः / प्रथमाद्वितीययत्योर्लोष्ठद्वये दत्ते तृतीयादिषु च क्रमेणैकैकस्यां तृतीयलोष्ठे सञ्चारिते पञ्च प्रथमातृतीययोश्चतुर्थ्यादिषु च तथैव चत्वारः / प्रथमाचतुर्योः पञ्चम्यादिषु च तथैव त्रयः प्रथमापञ्चम्योः षष्ठ्यादौ च तथैव द्वौ प्रथमाषष्ठयोः सप्तम्यां च तथैवैकः / द्वितीयातृतीययोश्चतुर्थ्यादिषु च तथैव चत्वारः / द्वितीयाचतुर्थ्योः 15 पञ्चम्यादिषु च तथैव त्रयः / द्वितीयापञ्चम्योः षष्ठ्यादौ च तथैव द्वौ द्वितीयाषष्ठयोः सप्तम्यां च तथैवैकः / तृतीयाचतुर्योः पञ्चम्यादिषु च तथैव त्रयः / तृतीयापञ्चम्योः षष्ठ्यादौ च तथैव द्वौ तृतीयाषष्ठयोः सप्तम्यां च तथैवैकः / चतुर्थीपञ्चम्योः षष्ठयादौ च तथैव द्वौ चतुर्थीषष्ठ्योः सप्तम्यां च तथैवैकः / पञ्चमीषष्ठयोः सप्तम्यां च तथैवैक इति त्रिकयोगाः पञ्चत्रिंशदित्येवं चतुष्कादियोगा अप्युन्नेयाः / अथवा 20 उमयमुहं रासिदुगं हेदिल्लागन्तरेण भए पढमे / लगृह रासि विहत्ते तस्सुवरि गुण त्ति संजोगा / / इति वचनानुसारेण एककद्विकत्रिकचतुष्कपञ्चकषट्कसप्तकाननुलोमपङ्क्त्या लिखित्वा तदधस्तात् प्रतिलोमपङ्क्त्या एककद्विकादयस्त एवाङ्का लेखनीया / ततश्चाधस्तनककानन्तरेण द्विकेनोपरितनं प्रथम सप्तकं विभजेत् / तत्र च सार्धास्त्रयों ये लभ्यन्ते ते 25 तस्मिन् सप्तके तथैव स्थिते तदुपरि न्यस्यन्ते ततश्च लद्धहरासि विहत्ते इति / अधोराशिना विभक्ते सत्युपरितनराशौ यल्लब्धं तेन सार्द्धत्रिकेण तस्य द्विकस्योपरि यः षट्कस्तस्मिन् गुणिते द्विकसंयोगा एक विंशतिर्भवन्ति / ततश्चाधस्तनद्विकानन्तरेण त्रिकेण एकविंशतिके विभक्ते लब्धेन सप्तकेन तथैव गुणिते पञ्चके त्रिकसंयोगाः पञ्चत्रिंशत् चतुष्केन
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy