SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 283 गोपनसौन्दर्यसारलज्जाविजृम्भितमेतदिति भावः / अनया च प्रतीयमानच्छायया सुप्रसिद्धोऽपि ह्यर्थः किमपि कमनीयत्वमानीयते / तद्यथा विश्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविलासाः / आक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः // इत्यत्र केऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं त्वक्लिष्टमनन्तमर्पयता 5 काच्छायानोपपादिता / मन्मथाचार्येण त्रिभुवनवन्धमानशासनेनात एव लज्जासाध्वसध्वंसिना दत्ता येयमलङ्घनीया आज्ञा तदनुष्टानेऽवश्यकर्त्तव्ये सति साध्वसलज्जात्यागेन विश्रम्भसम्भोगकालोपनताः / मुग्धाक्ष्या इत्यकृतकसम्भोगपरिभावनोचितदृष्टिप्रसरपवित्रिताः। येऽन्येऽन्ये विलासाः गात्रनेत्रविकारा अत एवाऽक्षुण्णा नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते केवलेनान्यत्राव्यग्रेण एकान्ताऽवस्थानपूर्व सर्वेन्द्रियोपसंहारेण भावयितुं शक्या अर्हा 10 उचिताः यतः-'केऽपि नाऽन्येनोपायेन शक्यनिरूपणाः / गुगीभूतव्यङ्ग्यस्य प्रकारान्तरमप्याह / "अर्थान्तरगतिः काका या चैषा परिदृश्यते / ___ सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता / " काका यत्राऽर्थान्तरगतिः स काव्यविशेषः इमं गुणीभूतव्यङ्ग्यप्रकारमाश्रितः / 15 अत्र हेतुर्व्यङ्ग्यस्य हि तत्र गुणीभाव एव भवति / अर्थान्तरगतिशब्देनाऽत्र काव्यमेवोच्यते। ननु प्रतीतेरत्र गुणीभूतव्यङ्ग्यत्वं वक्तव्यम् / प्रतीतिद्वारेण वा काव्यस्य निरूपितम् / अन्ये त्याहुः-व्यङ्ग्यस्य गुणीभावेऽयं प्रकारोऽन्यथा तु तत्राऽपि ध्वनित्वमेवेति, तच्चासत् / काकुप्रयोगे सर्वत्र शब्दस्पृष्टत्वेन व्यङ्ग्यस्योन्मीलितस्याऽपि गुणीभावात् / काकुर्हि शब्दस्यैव कश्चिद्धर्मस्तेन च स्पृष्टं गोप्यैवं गदितः सलेशमिति, हसन्नेत्राऽपिता- 20 कूतमितिवच्छब्देनैवाऽनुगृहीतम् / अत एव भम धम्मिएत्यादौ काकुयोजने गुणीभूतव्यङ्ग्यतैव व्यक्ता उक्तत्वेन तदाभिमानाल्लोकस्य / यथा स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः / स्वस्था इति भवन्तीति मयि जीवतीति धार्तराष्ट्रा इति च साकांक्षदीप्तगद्गदभारप्रशमोद्दीपनचित्रिता काकुरसम्भाव्योऽयमर्थोऽन्यत्तमनुचितश्चेत्यमुं व्यङ्ग्यमर्थ स्पृशन्ती तेनैवोपकृता सती क्रोधानुभावरूपतां व्यङ्ग्योपस्कृतस्य वाच्यस्यैवाधत्ते / यथा वा 25 आम असइम्ह ओरमपइव्वए णं तु मइलियं सीलं / किं पुण जणस्स जायव्वचंदिलं ताण कामेमो / ' आम असत्यो भवामः इत्यभ्युपगमकाकुः साकाङ्क्षोपहासा उपरमेति निराकांक्षतया 1. कियन्तोऽपि // 2. काकुलक्षणेन धर्मेण //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy