SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् शब्देन निपातसमुदायेन तापसस्य सतः शत्रुताया अत्यन्ताऽसम्भाव्यमानत्वमभिव्यक्तम् / मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता / तस्यां च स कर्ता / अपिशब्देन मानुषमात्रकः / अत्रैवेति मदधिष्ठितो देशोऽधिकरणम् / निःशेषेण हन्यमानतया राक्षसबलं च कर्मेति / तदिदमसम्भाव्यमानमुपनतमिति पुरुषकारासम्पत्तिव॑न्यते तिद् []भ्यां कारकशक्तिप्रतिपादकैश्च शब्दैः / रावण इति त्वर्थान्तरसङ्क्रमितवाच्यत्वं 5 पूर्वमेव व्याख्यातम् / धिग्धिगितिनिपातस्य शक्रजितमित्युपपदसमासेन सह कृतश्च शक्रं जितवानित्याख्यायिकेयमित्येतत् प्रति व्यञ्जकत्वम् / स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति व्यञ्जकत्वम् / ग्रामटिकेति स्वार्थिकतद्वितप्रयोगस्य स्रीप्रत्ययसहितस्याऽबहुमानास्पदत्वं प्रति व्यञ्जकत्वम् / विलुण्ठनशब्दे विशब्दस्योपसर्गस्य निर्दयावस्कन्दव्यञ्जकत्वम् / वृथाशब्दस्य निपातस्य स्वात्मपौरुषनिन्दा प्रति व्यञ्जकता / भुजैरिति बहुवचनेन प्रत्युत- 10 भारमात्रमेतदिति व्यज्यते / तेन तिलशस्तिलशोऽपि निर्भग्यमानेऽत्र श्लोके सर्व एवांशो व्यञ्जकत्वेन भातीति किमन्यत् / दृश्यन्ते च महात्मनां प्रतिभाविशेषभाजां बाहुल्येनैवंविधा बन्धप्रकाराः / यथा अतिक्रान्नसुखाः कालाः प्रत्युपस्थितदारुणाः / श्वः श्वः पापीयदिवसा पृथिवी गतयौवना // अत्र हि कृत्तद्रितवचनैरलक्ष्यक्रमव्यङ्ग्यः , पृथिवी गतयौवनेत्यनेन च पदेनाऽत्यन्ततिरस्कृतवाच्यो ध्वनिप्रकारः प्रकाशितः / अतिक्रान्तं न तु कदाचन वर्तमानतामवलम्बमानं सुखं येषु ते / काला इति / सर्व एव, न तु सुखं प्रति वर्तमानो नाम कोऽपि काललेश इत्यर्थः। प्रतीपान्युपस्थितानि निवृत्तानि प्रत्यावर्त्तमानानि तथा दूरभावीन्यपि प्रत्युपस्थितानि निकटतया वर्तमानीभवन्ति / दारुणानि दुःखानि येषु तेन दुःखं बहुप्रकारमेव / प्रतिवर्त- 20 मानरूपाः सर्वे कालांशा इत्यनेन कालस्य तावन्निर्वेदमभिव्यञ्जतः शान्तरसव्यञ्जकत्वम् / देशस्याप्याह-पृथिवी श्व: श्वः प्रातः प्रातर्दिनादिनं पापीयदिवसा पापानां सम्बन्धिनः .. पापिष्ठजनस्वामिका दिवसा यस्यां सा तथोक्ता / स्वभावत एव तावत् कालो दुःखमय.. स्तत्राऽपि तु पापिष्ठजनस्वामिकघृथिवीलक्षगदेशदौरात्म्याद्विशेषतो दुःखमय इत्यर्थः / तथा हि-श्व: श्व इति दिनादिनम् / गतयौवना वृद्धस्त्रीवदसम्भाव्यमानसम्भोगा। गत- 25 यौवनाया हि यो यो दिवस आगच्छति स पूर्वपूर्वापेक्षया पापीयो निकृष्टत्वात् / केवलस्य सुबन्तस्य यथा 1. कृत्प्रत्ययस्य च // 2. व्यङ्ग्यम् //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy