SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 172 कल्पलताविवेक सहितमनेकभाषाव्यामिश्रबन्धरूपम् / आख्यायिका उच्छ्वासादिना वक्त्राऽपैरवक्त्रादिना च युक्ता / कथा तद्विरहिता / उभयोरपि गद्यबन्धरूपतया द्वन्द्वेन निर्देशः / आदिग्रहणाचम्पू: / तत्र मुक्तकेषु रसबन्धाभिनिवेशिनः कवेस्तैदाश्रयमौचित्य, तच्च दर्शितमेव / अन्यत्र कामचारः / मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाऽभिनिवेशिनः कवयो दृश्यन्ते / तथाहि 5 अमरुककवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव / सन्दानितकादिषु तु विकटनिबन्धौचित्यान्मध्यमसमासादीर्घसमासे एव रचने / प्रबन्धाश्रितेषु तु यथोक्तप्रबन्धविशेषौचित्यमेवाऽनुसतव्यम् / पर्याबन्धेषु पुनरसमासामध्यमसमासे एव / कदाचिदर्थोंचित्याश्रये दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्त्तव्या / परिकथायां कामचारस्तत्रेतिवृत्तमात्रोपन्यासे नात्यन्तं रसबन्धाभिनिवेशात् / खण्डकथासकलकथयोस्तु 10 प्राकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वादीर्घसमासाया अपि न विरोधः / वृत्त्यौचित्यं तु यथारसमनुसतव्यम् / सर्गबन्धे तु रेसतात्पर्ये यथारसमौचित्यम् / अन्यथा तु कामचारः / द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्य साधीयः अभिनेयार्थे तु सर्वथा रसबन्धेऽभिनिवेशः / आख्यायिकाकथयोस्तु गद्यनिबन्धबाहुल्याद्गद्ये च छन्दोबन्धविभिन्नप्रस्थानत्वान्नियमहेतुरकृतपूर्वोऽपि मनाक् प्रक्रियते / एतद्यथोक्तमौचित्यमेव तस्या नियामकम् / सर्वत्र गद्यबन्धेऽपि छन्दोनियमवर्जिते / / यदेतदौचित्यं वक्तवाध्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गये छन्दोनियमवर्जितेऽपि विषयापेक्ष नियमहेतुः / तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रस भावरहितस्तदा कामचारः / रसभावसमन्विते तु वक्तरि पूर्वोक्तमेवाऽनुसतव्यम् / अत्राऽपि 20 च विषयौचित्यमेतत् / आख्यायिकायां भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने / गद्यस्य विकटनिबन्धाश्रयेण छायावत्वात् / तत्र च तस्य प्रकृष्यमाणत्वात् / कथायां तु विकटनिबन्धप्राचुर्येऽपि गद्यस्य 'सबन्धोक्तमौचित्यमनुसतव्यम् / रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता / रचनाविषयापेक्षं तत्तु किञ्चिद्विभेदवत् // 1. छन्दोविशेषः // 2. रसाश्रयम् // 3. विशेषतः करुणविप्रलम्भशङ्गारयोरित्यत्र ग्रन्थे // 4. रसबन्धानभिनिवेशे // 5. असमासायां हि सङ्घटनायां मन्थररूपा प्रतीतिः क्रियापदमनुधावन्ती वाच्य एव विश्रान्ता सती न रसतत्त्वचर्वणायोग्या स्यादिति भावः / / 6. मुक्तकादिषु कुलकान्तेषु / 7. रौद्रादिविषये // 8. परुषादयः / -पा ग. // 9 रघुवंशादौ // 1. कथामात्रतात्सर्ये कादम्बरीकथासारादौ / कादम्बरीसारादौ ग. // 11. सप्तमीयम् // 12. एतयोः सतोऽपि च // 13. स्थितं पक्षं दर्शयति / स्थितपक्ष द-ग. // 14. विषयमपेक्षते सहकारितया // 15. तदेव / /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy