SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् व्यङ्ग्यत्वे पदप्रकाशता यथा / वाणियय हथिदन्तेति / अत्र हि विलुलितालकमुखीत्येतत् पदं व्याधवध्वाः स्वतःसम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयत्तदीयस्य भर्तुः / सततसम्भोगक्षामतां प्रकाशयति / लुप्तं धाम खलाननेष्वधिगतः स्वान्तेऽधिवासः सता मस्माभिः समुपासितो भवहरस्तत्त्वावबोधः परः / पीयन्ते जनजुष्यमाणविरजस्तीर्थाधिकस्वादवः शब्दब्रह्मपरायणा यदि वयःशेषेऽपि शेषोक्तयः // इत्यत्र शब्दब्रह्मेतिपदस्यार्थो वस्तुमात्रस्वभावः स्वशक्तिमाहात्म्यात्विलङ्कारं ध्वनति / अर्थकामादिविद्योपार्जनं सत्यमनुचितं वयःशेषे, शेषोक्तिपरिशीलनं तु शब्दब्रह्मात्मपरतत्त्वप्राप्त्युपायभूतं वयःशेषे यदा सेव्यते तद्यतिपदासेवनसब्रह्मचारि तत्रोचिततममेवेति / 10 रजनय इव सितकरकरधवलाः कचवल्लर्यः सन्त्वथ तिमिरभरासितरुचयः / सङ्कुचितेऽपि वपुषि रमणीनां नलिनीनामिव हृदि न मनागपि रागापचयः // अत्र नलिनीनामिति पदस्याऽर्थ उपमानरूपः स्वभावशक्त्याऽतिशयोक्ति ध्वनति / 15 यदि विचार्यते तत्प्रत्युतान्तःस्थितो रागोऽपरिधूसरित एव सङ्कचितकमलिनीवत् सातिशयः / स्थविरयोषितामिति सातिशयोक्तिर्हास्ये वा शान्ते वा धर्मवीरे वाऽङ्गमिति . सैव प्रधानम् / सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरु ौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः / सद्योमार्जितदाक्षिणात्यरमणीदन्तावदातद्युति ___श्चन्द्रः सुन्दरि दृश्यतामयमितश्चण्डीशचूडामणिः // अत्र गौराङ्गीवदनोपमापरिचित इति पदेन योपमा प्रकाश्यते तया स्वसामर्थ्यात्तव वदनबिम्बतुल्यत्वादयं मे बहुमानास्पदमिति चाटुरूपोऽभिप्रायो द्योत्यते / वाक्यप्रकाशता 20 यामपि - 1. [वाणियय हत्थिदंता] कुत्तो अम्हाण वग्घकित्तीओ / जावि लुलियालयमुही घरम्मि परिसक्कए सुन्हा // 2. चतुर्थदिवसस्नाता स्त्री तीर्थम् // 3. वयःशेषे तुल्यम् // 4. ये शान्तं न प्रतिपन्नास्तन्मतेन / शान्तरसं ग. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy