SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ 5 शब्दालङ्कारदर्शनम् 149 इत्युत्प्रेक्षा साक्षादनुक्ताऽपि वाक्यार्थसामर्थ्यादनुरणनरूपव्यङ्ग्या लक्ष्यते / न चैविधे विषये इवादिशब्दप्रयोगमन्तरेणाऽसम्बद्धतैवेति शक्यं वक्तं, गमकत्वात् / अन्यत्राऽपि तदप्रयोगे तदर्थावगतिदर्शनात् / यथा ईसाकलुसस्स वि तुह मुहस्स गणु एस पुण्णिमायंदो / अन्ज सरिसत्तणं पाविऊण अंगिच्चिय न माइ / ईर्ष्याकलुषितस्याऽपि ईषदरुणच्छायाकस्य / यदि तु प्रसन्नस्य मुखस्य सादृश्यमुद्हेत् सर्वदा वा तत् किं कुर्यात् / त्वन्मुखं तु चन्द्रीभवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याऽभिप्रायः / अङ्गे स्वदेहे न मात्येव दश दिशः पूरयति / यतः अद्य इयता कालेन एक दिवसमात्रमित्यर्थः / अत्र पूर्णचन्द्रेण दिशां पूरणं स्वरससिद्धमेवमुत्प्रेक्ष्यते / यदि च ननुशब्देन वितर्कमुत्प्रेक्षारूपमाचक्षाणेनाऽसम्बद्धताऽत्र पराकृतेति सम्भा- 10 ज्यते तदेदमत्रोदाहरणम् / यथा त्रासाकुलः परिपतन् परितो निकेतान् पुम्भिर्न कैश्चिदपि धन्विभिरन्वबन्धि / ___ तस्थौ तथाऽपि न मृगः कचिदङ्गनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः / / परितः सर्वतो निकेतान् परिपतन्नाक्रामन्न कैश्चिदपि चापपाणिभिरसौ मृगोऽनुबद्धस्तथाऽपि न कचित्तस्थौ, त्रासचापलयोगात् स्वाभाविकादेव / तत्र चोत्प्रेक्षा ध्वन्यते / 15 अङ्गनाभिराकर्णपूर्णर्नेत्रशरैर्हता ईक्षणश्रीः सर्वस्वभूताऽस्य यतः अतो न तस्थौ / नन्वेतदप्यसम्बद्धमस्तु, न शब्दाऽर्थव्यवहारे हि प्रसिद्धिरेव प्रमाणम् / / श्लेषध्वनिर्यथा-रम्या इति प्राप्तवतीरिति। पताकाः ध्वजपटान् प्राप्तवती रम्या इत्यतो हेतोः, पताकाः प्रसिद्धीः प्राप्तवतीः, किमाकारा प्रसिद्धी रम्या इत्येवमाकाराः / विविक्ता जनसङ्कलत्वाभावादित्यतो हेतो रागं सम्भोगाऽभिलाष वर्द्धयन्तीः / .... 20 __ अन्ये तु रागं चित्रशोभामिति / तथा रागमनुरागं वर्द्रयन्तीः / यतो हेतोर्विविक्ताः . विभक्ताग्यो लटभाः / नमन्ति वलीकानि च्छदिःपर्यन्तभागा यासु / नमन्त्यो वल्यस्त्रिवलीलक्षणा यासाम् / सममिति सहेत्यर्थः / ननु समशब्दात्तुल्यार्थोऽपि प्रतीतः / सत्यम् , सोऽपि श्लेषबलात् / श्लेषश्च नाऽभिधावृत्तेराक्षिप्तः, अपि त्वर्थसौन्दर्यबलादेवेति सर्वथा ध्वन्यमान एव श्लेषः / समा इति हि यदि स्पष्टं भवेतदोपमाया एव स्पष्टत्वाच्छलेषस्त- 25 दाक्षिप्तः स्यात् / सममिति तु निपातोऽअसा सहार्थवृत्तिर्व्यञ्जकत्वबलेन क्रियाविशेषणतया शब्दश्लेषतामेति / न च तेन विनाऽभिधाया अपरिपुष्टता काचिदत एव समाप्तायामेवाऽभिधायां सहृदयैरेव स द्वितीयोऽर्थः पृथक् प्रयत्नेनाऽवगम्यः / यथोक्तं प्राक् “शब्दार्थ 1. न मातीवेति ख // 2 हतेक्षणश्रीरिवेति अस्य च व्याख्यानमङ्गनाभिरिति / - रित्यादि ग. // 3. इवादिशब्दप्रयोगं विना / / इवशब्दप्रयोगं विना ख. // 4. प्राञ्जलया दृष्टया ख. // "
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy