SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ 10 शब्दालङ्कारदर्शनम् पदप्रकाशो वाक्यप्रकाशश्चेति वक्ष्यते / तत्र फलपदेऽर्थान्तरन्यासध्वनिः प्राधान्येन, वाक्ये त्वप्रस्तुतप्रशंसा। तत्राऽपि पुनः फलपदोपात्तसमर्थ्यसमर्थकभावप्राधान्यमेव भातीत्य र्थान्तरन्यासध्वनिरेवायमिति भावः / एवमन्येऽपि शब्दशक्तिमूलानुस्वानरूपा अलङ्कारध्वनिप्रकाराः सन्ति ते स्वयं सहृदयैरनुसतव्याः / इह तु ग्रन्थविस्तरभयान्न तत्प्रपञ्चः कृतः / किन वस्तुमात्रमपि व्यङ्ग्यं शब्दशक्त्या प्रधानतः / / शब्दशक्त्युद्भवस्याऽस्य ध्वनेः स्याद्गोचरः क्वचित् / / वस्तुमात्रमपीति / यद्वस्तुमात्रं प्रतीयमानमस्य ध्वनेरप्रयोजकमुक्तं तदपीत्यर्थः / कचिदिति वस्तुमात्रप्रतीतौ यत्र श्लेषव्यपदेशस्तव्यतिरिक्तोऽस्य विषय इत्यर्थः / यथा / पंथिय ! न एत्थ सत्थरमत्थि मणं पत्थरस्थले गामे / उग्गयपओहरं पेक्खिऊग जइ वससि ता वसंसु // पथिक ! नात्र संस्तरोऽस्ति मनाक् प्रस्तरस्थले ग्रामे / उद्गतपयोधरं प्रेक्ष्य यदि वससि तद्वस / / [छाया ] संस्तरस्तृणादिशय्या / प्रस्तराः पाषाणाः / एवमपि चेन्मेघभयं तद्वस / व्यङग्यं तु प्रहरचतुष्टयमप्युपभोगेन नाऽत्र निद्रां कत्तं लभ्यते / सर्वे ह्यत्राऽविदग्धाः / तदुन्नत- 15 पयोधरां मामुपभोक्तुं यदि वससि तदाऽऽस्वेति / अत्र वाच्यबाधेन व्यङ्ग्यस्य स्थितत्वांतयोर्नोपमानोपमेयभावः। अर्थशक्त्युद्भवस्त्वन्यो यत्राऽर्थः से प्रकाशते / यस्तात्पर्येण वस्त्वन्यद् व्यनक्युक्तिं विना स्वतः // यथा-एवंवादिनि देवर्षाविति / अत्र हि लीलाकमलपत्रगणनमधोमुखत्वं चेत्यनु- 20 भावरूपो देवषेर्वरकथाकरणं पितृपार्श्ववर्तनं चेति विभावरूपश्चार्थ उपसर्जनीकृतस्वरूपः शब्दव्यापारं विनैव लजालक्षणं व्यभिचारिणं गमयति / न चाऽयमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेविषयः, यतो यत्र साक्षाच्छन्दनिवेदितेभ्यो विभावानुभावेभ्यस्तत्सामर्थ्यादेव व्यवधिवन्ध्यतयैव प्रतीयमानेभ्यो व्यभिचारिभ्यश्च रसादीनां प्रीतिः स तस्य केवलस्य मार्गः / यथा निर्वाणभूयिष्ठमथाऽस्य वीर्य संधुक्षयन्तीव वपुर्गुणेन / 25 अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या // इत्यादौ सम्पूर्णाऽऽलम्बनोद्दीपनविभावतायोग्यस्वभाववर्णनम् / 1. वाच्यः / 2 शब्दव्यापार विना / 3 निर्वाणप्रायम् // 4. शम्भोः // 5. अशोक'निर्भसितेति प्रस्तां नितम्बादित्यादौ विभावस्वभाव आलम्बनरूपः उमापि नीलालकेति अथोपनिन्ये इति चोद्दीपनरूपः //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy