SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 138 . कल्पलताधिवेके विरोधच्छायानुप्राहिणा श्लेषेण व्यञ्जितस्य विषय एवायम् / यथा वा-श्लाघ्याशेषतनुमिति' / अत्र स्वतनोरधिकामितिशब्देन व्यतिरेकस्योक्तत्वाद्वाच्यतयैव व्यतिरेकच्छायानुप्राही श्लेषः / यथा च-भ्रमिमरतिमिति / अत्र रूपकच्छायाऽनुग्राही श्लेषो वाच्यतयैवाव भासते। भुजगशब्दार्थपर्यालोचनाबलादेव विषशब्दो जलमभिधायाऽपि न विरन्तुमुत्सहते अपि 5 तु द्वितीयमर्थ हालाहललक्षणमाह / तदभिधानेन विनाऽभिधाया एवाऽसमाप्तत्वात् / भ्रमिप्रभृतीनां तु मरणान्तानां साधारण एवार्थः / यथा वा चमढियमाणसकंचणपंकयणिम्महियपरिमला जस्स / अक्खुडियदाणपसरा बाहुप्फलिह च्चिय गइंदा // अत्राऽपि रूपकच्छायाऽनुग्राही श्लेषस्तथैव / निराशीकृतत्वेन खण्डितानि यानि 10 मानसानि शत्रुहृदयानि तान्येव काञ्चनपङ्कजानि ससारत्वात्तैर्हेतुभूतैः णिम्महियपरिमला इति प्रसृतप्रतापसारा अखण्डितविश्राणनप्रसरा बाहुपरिघा एव यस्य गजेन्द्रा इति / गजेन्द्रशब्दवशाच्चमढियशब्दः परिमलशब्दो दानशब्दश्च त्रोटन-सौरभ-मदलक्षणानर्थान् प्रतिपाद्याऽपि न परिसमाप्ताऽभिधाव्यापारा भवन्तीति उक्तरूपं द्वितीयमप्यर्थमभिदधत्येव / एवमाक्षिप्तशब्दस्य व्यवच्छेद्यं प्रदर्य एवकारस्य व्यवच्छेद्यं प्रदर्यते / स चाक्षिप्तोऽप्य15 लङ्कारो यत्र पुनः शब्दान्तरेणाऽभिहितस्वरूपस्तत्र न शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिव्यवहारः, किन्तु वाच्यश्लेषालङ्कारव्यवहार एव / अयमर्थः-उभयार्थप्रतिपादनशक्तशब्दप्रयोगे यत्र तावदेकतरविषयनियमनकारणमभिधाया नास्ति, यथा-येन ध्वस्तमनोभवेनेति / यत्र वा प्रत्युत द्वितीयाभिधाव्यापारसद्भावावेदकं |मागमस्ति / यथा तस्या विनाऽपीत्यादौ चमढिय इत्यन्ते / तत्र तावत् सर्वथा सोऽर्थोऽभिधेय इति स्फुटमदः / यत्राऽप्यभिधाया 20 एकतरत्र नियमहेतुः प्रकरणादिवियते तेन [ येन ? ] द्वितीयस्मिन्नर्थे नाभिधा सङ्कामति / तत्र द्वितीयोऽर्थोऽसावाक्षिप्त इत्युच्यते / तत्राऽपि यदि पुनस्तादृक् शब्दो विद्यते येनाऽसौ नियामकः प्रकरणादिरपहतशक्तिकः सम्पाद्यते / अत एव साऽभिधाशक्तिर्वाधिताऽपि सती प्रतिप्रसूते च / तत्रापि न ध्वनेविषय इति / यथा-दृष्टया केशवगोपरागहृतयेति / अत्र 1 साध्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित त्रैलोक्यां चरणारविन्दललितेनाकान्तलोको हरिः / बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दधत / स्थाने यां स्वतनारपश्यदधिकां सा रुक्मिणी वोऽवतात् // ख.॥ भ्रमिमरतिमलसहृदयतां प्रलयं मृच्छौं तमः शरीरसादम् / मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् // ख. // विरोधव्यतिरेकरूपकप्रकरणलक्षणम् // 4. -धेय एवेति न //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy