SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 129 शब्दालङ्कारदर्शनम् रिपवो हता इति यादृगनलङ्कृतोऽयं वाक्यार्थस्तादृगयमपि तु सुन्दरतरीभूतोऽत्रार्थः / सौन्दर्य च करुणरसकृतमेवेति / चन्द्रादिना वस्तुना यथा वस्वन्तरं वदनाद्यलक्रियते, तदुपमितत्वेन चारुतयाऽवभासात्तथा रसेनाऽपि वस्तु वा रसान्तरं चोपस्कृतं सुन्दरं भातीति रसस्याऽपि वस्तुन इवालङ्कारत्वे को विरोधः / ननु रसेन किं कुर्वता प्रस्तुतोऽर्थोऽलङ्क्रियते / तझुपमयाऽपि किं / कुर्वत्याऽलक्रियते / ननु तयोपमीयते प्रस्तुतोऽर्थः / रसेनाऽपि तर्हि सरसीक्रियते सोऽर्थ इति स्वसंवेद्यमेतत् / संकीर्णो रसादिरङ्गभूतो यथा क्षिप्तो हस्तावलग्न इति / अत्र त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वे कामीवेत्यनेनोपमानेनाऽत्र श्लेषानुगृहीतेनेाविप्रलम्भो य आकृष्टस्तस्य श्लेषोपमासहितस्याङ्गत्वं न केवलस्य / यद्यप्यत्र करुणरसो वास्तवोऽप्यस्ति तथापि स तैच्चारुत्वप्रतीत्यै न व्याप्रियत इत्यनेनाऽभिप्रायेण श्लेषसहितस्येत्येतावदेवोच्यते। 10 अथवा अत्रेाविप्रलम्भः करुणस्याङ्गम् / करुणश्च प्रभावातिशयस्य / न च विप्रलम्भस्य करुणे विश्रान्तिरिति तयोः समत्वात् साङ्कर्येगाङ्गभाव इति / रसादिरित्यादिग्रहणेन भावाद्यलङ्कारा अपि प्रेयस्विप्रभृतिलक्षणा गृह्यन्ते / तत्र भावालङ्कारस्य शुद्धस्योदाहरणम् / यथा तव शतपत्रपत्रमृदुताम्रतलश्चरणः चलकलहंसनूपुरकलध्वनिना मुखरः / महिषमहासुरस्य शिरसि प्रसभं निहितः कनकमहामहीध्रगुरुतां कथमिव गतः // इत्यत्र देवतास्तोत्रे वाक्यार्थीभूते वितर्कविस्मयादिभावस्य चारुत्वहेतुतेति तस्याङ्गत्वाद्भावालङ्कारस्य विषयः / रसाभासस्यालङ्कारता यथा समस्तगुणसम्पदः सममलङ्क्रियाणां गणैः on शिवं हृदयवल्लभं यदि यथा तथा रञ्जयेः ___ तदेव ननु वाणि ते जगति सर्वलोकोत्तरम् // - अत्र हि परमेशस्तुतिमात्रं वाचः परमोपादेयमिति वाक्यार्थे शृङ्गाराभासश्चारुत्वहेतुः 25 समासोक्तिसहितः / न ह्ययं पूर्णः शृङ्गारो नायिकाया निर्गुणत्वे निरलङ्कारत्वे च भवति / "उत्तमयुवप्रकृतिरुज्ज्वलवेषात्मकः” इति चाभिधानात् / भावाभासाङ्गता यथा / 1 प्रभाव // 2 विस्मयादीनां भावानां वितर्क प्रति अङ्गत्वमिति समत्वाभावान्न सङ्कीर्णतयाऽलङ्कारस्वम् / / 3. विस्मयादेः // 4. -ते ग. // 5. शृङ्गारः //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy