SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् होइ ण गुणाणुराओ जडाण णक पसिद्धिसरणाण / किर पन्हुवइ ससिमणी चंदे ण पियामुहे दिवें // इत्यत्रार्थान्तरन्यासे चन्द्रात् प्रियामुखस्य व्यतिरेकः प्रतीयते / स च प्रधानमिति सङ्करालङ्कार एवायं न भवति, अपि त्वलङ्कारध्वनिनामाऽयं ध्वनेर्द्वितीयो भेदः / प्रकारान्तरद्वये तु ध्वनिसम्भावनैव नास्ति / तथाहि "शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र भाविनः / " सङ्करो वा यथा / इत्थं स्थितिर्वरार्था चेत्यादि / भिन्नदेश एष . शब्दार्थालङ्कारसङ्करः / एकदेशस्तु सः एकवाक्यांशप्रवेशाद्वाऽभिधीयत इति लक्षितः / यथा- मैवमेवास्वसच्छायेति(?)। परमार्थतस्तु सर्वेष्वपि प्रभेदेषु सङ्करोक्तिरेव ध्वनिसम्भावनां निराकरोति। सङ्कीर्णता हि मिश्रत्वं लोलीभावस्तत्र कथमेकस्य प्राधान्यं क्षीरजलवदिति भावः / तदयमत्र 10 संक्षेपः व्यङ्गयस्य यत्राप्राधान्यं वाच्यमात्राऽनुयायिनः / समासोक्त्यादयस्तत्र वाच्यालंकृतयः स्फुटाः // व्यङ्गयस्य प्रतिभामात्रे वाच्यार्थाऽनुगमेऽपि वा / न ध्वनियंत्र वा तस्य प्राधान्यं न प्रतीयते // तत्परावेव शब्दार्थों यत्र व्यङ्गयं प्रति स्थितौ / ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः // व्यङ्गयं वाच्यानुगतं तदननुगतं च / अननुगतमप्यस्फुटं स्फुटं वा / स्फुटमप्यप्रधानं प्रधानं वा / प्रधानमपि सन्देहेन निश्चयेन वा। निश्चयश्च तस्याऽपि तस्यैव वेति षट् पक्षाः / तत्र वाच्याऽनुगतं वाच्यार्थानुगमेऽपि चेत्युक्तम् / यथा 'अहं त्वा यदि नेक्षेय' 20 इत्यादौ ‘म्रिये' इति व्यङ्ग्यम् / वाच्यपूरणत्वाद्वाच्यायमानम् / यथा वा--'कमलायराणमलिया' इत्यादि वक्ष्यमाणम् / अत्र हि दृष्टमेघप्रतिबिम्बा मुग्धवधूरिदं वक्तीति व्यङ्गचं पूर्व वाच्येनापेक्षितं वाच्यायमानमेव / अस्फुटं प्रतिभामात्र इत्यनेन दर्शितम् / प्रतिभामात्रमस्त्यत्र व्यङ्गयमिति सामान्येनावगमः न तु विशेषेण यथा अहअं उज्जुअरूआ तस्स वि उम्मंथराइं पिम्माइं / सहियायणो य निउणो अलाहि किं पाअराएण / / अत्र स मां पुरुषायितेऽर्थयतेऽहं च निषेद्धुमशक्ता / तत् सख्यः पादमुद्रया तर्कयित्वा 1. अनुप्राह्ये // 2. अनुग्राहकः // 3. आयेऽर्द्धऽनुप्रासो द्वितीयेऽर्थान्तरन्यासः // 4 चेदित्यादि ग. // 5. सच्छायेत्यादि पदद्वये श्लेषानुप्रासयोः स्थितिः // 6. च वा. ग. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy