SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ गुणविवेचनम् न जीवतो मृतस्येत्यर्थः / ध्वनि-इति / रत्याख्यस्य भावस्य प्राधान्यं चेत् ध्वनिः, इतरथा तु गुणीभूतव्यङ्यमिति / जीवतीत्युक्तम् इति / उत्तरमिदम् / अत्र प्रकृतिस्थ- इत्यादि। अत्र अत्रैकजन्मनि कृतम् अनेन जन्मत्रये इति ग्राम्याणि / दलितं रिपूरः कवलिताऽकरोत् पुरुष इत्युपनागराणि / शेषाणि नागराणि / ग्राम्यादीनां च प्रकृतिस्थादिभिः सादृश्यात् प्रकृतिस्थादीनां ग्राम्यादीनामिति' च भाषाद्वयमुक्तम् / विशेषश्चद्विमृश्यते / ततस्तत्रापि .5 जन्मशब्दद्वयं कृतशब्दश्च प्रकृतिस्थः / दलितं कवलितेति च कोमलौ / अभ्युद्धृता क्षिप्तक्रममिति च कठोरौ / अत एवाह-उभयेषां च इति / इति शब्दगुणाः / [ अथ अर्थगुणाः / / अस्य च इति। वक्ष्यमाणेन न्यायेन / अस्य इति वाक्यार्थस्य / व्यासः समास- 10 श्चेति प्रौढिः / आवृत्त्या अस्य इति / वाक्यार्थपदार्थरूपस्यार्थस्य साभिप्रायत्वं च प्रौढिरित्यर्थः / व्याससमासौ वाक्यार्थस्यैवेत्यादि / वाक्यार्थभावादप्रच्युतस्यैव विस्तरसंक्षेपी भवत इति। पदार्थे वाक्यवचनं वाक्यार्थविस्तराद्भिन्नमेव / वाक्यार्थस्य विस्तराभावात्। एवं वाक्यार्थसंक्षेपाद्वाक्यार्थे पदाभिधानं भिन्नं, वाक्यार्थतापायेन पदार्थरूपतापत्तेः। वाक्यस्य इति वाक्यार्थप्रतिपादकस्य / अर्थद्वारकं हि वाक्यस्य साभिप्रायत्वमित्यर्थस्यैव साभिप्राय- 15 त्वमित्यर्थः / एवं पदस्यापीत्यत्रापि / तारकारि-इति / तारकस्यारिविजेय इति कृत्वा तारकारिरिति पुष्टार्थमपि परित्यज्य विजेय इत्यत्र यद् 'एय' वर्णद्वयं तत्साम्यात्कार्तिकेयपर्द यदुपात्तं तदपुष्टार्थमिति भावः / गृहस्थ इति / विवाह्यत्वादिभिः समुदितैः सहचरितत्वात् गृहस्थसहधर्मचारिणीत्वमर्थतो लब्धम् , अथवा गार्हस्थ्योचितकर्मप्रारम्भवाचकादारम्भशब्दात् / घटना इति / 20 देवादिप्रतिमाया इव विषमविविधस्थानयोगेऽपि श्लेषणं घटना / अत आह-क्रम इति / विवेकिनोऽत्र इति / क्रमाभेदलक्षणमवैषम्यं यद् व्याख्यातं तदाक्षिप्य व्याख्यानान्तरकरणेन समाधत्ते / तथाहि-ये विवेकिनो व्युत्पन्ना अत्र काव्यलक्षणे शिष्यन्ते कथं ते क्रमभेदं विदध्युरिति / अवैषम्यस्य व्याख्यानान्तरकरणम् / तद्वत्मियः इति / तद्वन्तो ज्ञानवन्तो गुणवन्तश्च प्रिया यस्य स तथा। अर्थ- 25 इति / अर्थस्य दृष्टिदर्शनविषयभावापत्तिः। समाधानकारणत्वाद् इति / समाधानं कारणं यस्यास्तद्भावस्तत्वं तस्मात् / निमित्तम् इति सम्बन्धलक्षणमित्यर्थः / पूर्वस्य इत्यादि / ननु कीदृगत्रोपजीव्योपजीवकभावः / प्रथमकृतमुपजीव्यं पश्चात्तनं पुनरुपजीवकमिति चेत्तदेव 1. ग्राम्यादीनामित्युक्तम् ग. // 2. समुचितैः ग. 3 अथवा............आरम्भशब्दात इति पाठो ग. पुस्तके नास्ति // 4. येषां विषये ज्ञानं ते ज्ञानवन्तः //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy