SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके शब्दानाम् इति / मूर्ध्नि वर्गान्त्यगककारादिलघुरेफादिवर्णात्मनामाद्यादियुक्तद्वितीयादिटकारादिवर्णस्वरूपाणामसमाससमासवतामनुद्वतोद्धतसङ्घटनाभाजां चेत्यर्थः / साधारणः इति / व्यङ्ग्यत्वेनेत्यर्थः / नन्वयमोजो विपर्ययात्मा दोषः, कथं गुणः, इत्याशङ्ग्याह-गुणः संप्लवाद् इति / करुण- इति / यदि तत्त्वं विवेच्यते तदा सर्वेषामपि 5 रसानां प्रतीतिश्चमत्कारसारैवेति धनलाभबन्धुवियोगाद्युदाहार्यम् / ननु नर्तकदर्पणप्रतिबिम्बितं वृद्धजीमूतवाहनादिचरितमास्वादयतां गीतातोद्यादिना सुमनीभवतां प्रेक्षकाणामास्वाद्यस्य करुणरसप्रायत्वादनुकृतेश्च हर्षं चाधिगच्छन्तीति हर्षफलत्वादवकल्पतां नाम सुखदुःखयोः संप्लवः। तथाविधचित्ररूपसंविदुदयात् / इह पुनः कथं संप्लवसिद्धिरित्याशङ्क्याह ननु इति / 10 साम्योत्कर्षों च इति / नायं वृत्तप्रभाव इत्येकवृत्तत्वेन साम्योत्कर्षों दर्शयिष्यते / परिशिष्टेऽपि इति / नृपतिककुदमित्यत्र प्रसादः। दत्त्वा यूने[इत्यत्रौजः / सितातपेत्यत्र प्रसादः / वारगमित्यत्रौजः / परिमितदेश-इति / भल्वा ला ? ]तक्या इत्यत्र सहोपमामित्यत्र चौजः / नातिरूढम् इति अप्रसिद्धार्थमित्यर्थः / अनभ्यर्जुन-इति / प्राक्तनोदाहरणार्थ एवात्र प्रतिपाद्यते / सुखशब्दार्थ-इति / सुखकारी शब्दविषयश्च यः संयोगः स 15 शब्दगुणः प्रसादः। यतः शब्दविषयोऽतः शब्दगुण इत्यर्थः / असौ इति / सुखसंयोगः / एव इति / इतरसन्धिप्रकारद्वयव्यवच्छेदार्थोऽयम् / अन्योन्यलयः इति / योषित्तिष्ठतीत्येवंरूपः / रूपान्तरापत्तिः इति / योषिद्गच्छतीत्येवंप्रायः / केचिद इति / श्लेषसमाधिउ[ध्यु]दारताः ओजस्यन्तर्भूताः / अर्थव्यक्तिश्च प्रसादे / कष्टत्वग्राम्यत्वदोषत्यागात् सौकुमार्यकान्ती स्वीकृते / मार्गाभेदरूपा समता कचिद्दोष इति / मालती इति / अत्र 20 लकाराणामल्पप्राणता / येन इति श्लेषेण / तच इति / मासृण्यं च पदान्तरपाठस्याक्षेप्यत्वे, सन्धीयमानयोः पदयोः साजात्ये सावर्ण्य च, सन्धेः सन्धायकयार्वर्णयोश्च साजात्ये सावर्षे च भवतीति पञ्चप्रकारम् / तत्र सन्धीयमानयोः पदयोः सावये यथा-स्थितः पृथिव्या इति / अत्रैकत्र तकारो ऽपरत्र थकार इति तदपेक्षया सावर्ण्यम् / “वर्यो वर्येण सवर्णः” इत्युक्तत्वात् / सन्धेः सा 25 जात्ये यथा तडिजटिलमिति / अत्र सन्धेर्जकारस्य जकारेण साजात्यं सादृश्यमित्यर्थः / इतरस्मिंश्च पक्षत्रये स्वयमेवोदाहृतमिति / सूत्रस्येव इति सन्धानतन्तोरित्यर्थः / सकारेण इति / तकारेण समानस्थानत्वादित्यर्थः / मातङ्गाः इति / वाच्यवशादत्र मसृणमार्ग परित्यज्य उद्धतमार्ग आश्रितः / यद्यत्र मसृणमार्गो निर्वाह्येत तदा दोषः स्यात् / चन्दनप्रणय- इति / अत्र यत् समत्व 1. तथाविचित्र ख. ग. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy