SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ कल्पलताविके एवमन्येऽपि इति / तथा च ध्वनिकारः.... "रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च / / " वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव / यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भनिमन्तरेण स्वयं संभोगाभिलाषकथने / यदि वा वृत्तीनां भरतप्रसिद्धानां 5 कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुरेवेत्यपि द्रष्टव्यम् / अत्र च परिकरश्लोकाः " मुख्यो व्यापारविषयः सुकवीनां रसादयः / तेषां निबन्धने भाव्यं तैः सदैवाप्रमादिभिः / / नीरसस्तु प्रबन्धो यः सोऽपशब्दो महान् कवेः / स तेनाकविरेव स्यादन्येनास्मृतलक्षणः // पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः / तान् समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा // वाल्मीकिव्यासमुख्याश्च ये प्रख्याता कवीश्वराः / तदभिप्रायबाह्योऽयं नास्माभिर्दर्शितो नयः // " 15. अपशब्द इति दुर्यश इत्यर्थः / ननु कालिदासः परिपोषं गतस्यापि करुणस्य रतिप्रलापेषु पौनःपुन्येन दीपनमकार्षीत् / तत् कोऽयं रेसविरोधिनां परिहारं प्रति निर्बन्ध इत्याशङ्याह-पूर्व इति / न हि वसिष्ठादिभिः कथञ्चिद्यदि स्मृतिमार्गस्त्यक्तस्तद्वयमपि तथा त्यजामः / अचिन्त्यहेतुकत्वान्मुनि चरितानामिति भावः / / इति रसदोषाः // 20 इति कल्पपल्लबशेषे कल्पलताविवेके दोषदर्शनो नाम प्रथमः परिच्छेदः॥ 1. कालिकादासः ख. // 2. उद्दीपनादीनाम् //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy