SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ VA कल्पलताविवेके चार्थ विलक्षणं वक्तुमन्योन्यं चेत् पदानि न सम्बद्धानि न कश्चिद्दोष इति भावः / असम्बद्धत्वाच्च दोषाशङ्का युक्ता / स्वयमालोचनाच्च न दोषः / कुसुमभरः इति / कश्चित् कामी मलयोद्याने तरुणीं दृष्ट्वा स्वयमेव पर्यालोचयति / समुदायार्थशून्यं यत्तदपार्थ प्रचक्षते इत्यादि / अपवादार्थमिदम् / 5 विरसः इति विरुद्धो रस इत्यर्थः / प्रबन्धेभ्यः इति / तद्यथा हयग्रीववधे'। तत्र क़िल हयग्रीवेणे पुत्रो नरकासुरानयनाय महोत्सवे प्रकृते प्रेषितः / स च तत्स्थानं गत्वा हरिहतं च नरकं जनेभ्यः श्रुत्वा तत्सुतां च पितृदुःखाद्नगतां बुवा समाश्वासनार्थं तस्या एव सकाशमगमत् / एवमत्र करुणे रसे प्रकृते शृङ्गारो वर्णितः / तथाहि-स तां तपस्यन्ती दृष्ट्वैव विषमशरशितशरशतनिकररुजा विवशीकृतहृदय इदमुवाच नववयसि रतोत्सवक्षमाया ___ स्तव तनुगात्रि तपो हि नानुरूपम् / वद कुसुमरजोभिरापगानां पृथुजघने यदि सेतवः क्रियन्ते // एतमेवार्थ स्वयमार्यया सूचयन्नाह-तव वनवास इति / रसवस्तुनोः इति रस15 योरित्यर्थः / मायादि-इति / माया वञ्चनं परव्यामोहनमिति यावत् / आदिशब्देन क्रीडादीनां ग्रहणम् / तदाह ___ क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे / परल्यामोहने चापि सोपयोगाः प्रहेलिकाः / / क्रियागुप्तादि-इति / आदिग्रहणात् कारकगुप्ताक्षरच्युतक-मात्राच्युतक-बिन्दु20 च्युतक-व्यत्यस्ताक्षर-व्यत्यस्तमात्र-व्यस्तबिन्दु-बिन्दुमती-गूढचतुर्थ-प्रहेलिका-प्रश्नोत्त रादि / उभयरूपता-इति / वाक्यार्थाश्रयरूपता वाक्याश्रयरूपता चेत्यर्थः। संठवेइ इति / तदैव हस्तस्पर्शादिसुखविधानेन उत्तरकालं च प्रच्छन्नसुरतोपभोगमनोरथपरिपूरणाशासंदर्शनेनेत्यर्थः / प्रक्रान्तसमासस्य इति / " उपमानानि सामान्यवचनैः समस्यन्ते" इत्येवंबिधस्य / इत्यर्थदोषाः // [अथ रसदोषाः] - नानर्थक इति / शब्दोपात्तस्यैव हि पुनरनुवादो भवति, न प्रतीयमानस्येत्यर्थः / अनुभावापर्यवसायिनः इति / शृङ्गारी चेटुवा संभवन्ति तथाविधा अनुभावाः / शान्तश्चेन्न 1. महाकाव्ये // 2. दानवविशेषेण // 3. प्रारब्धे // 4 गुप्त //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy