SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ दोषदर्शनम् यत्त्वत्र विवरणकृता उपमानोपमेयभावविवक्षासाम्यमिवादिप्रयोगश्चेति त्रितयमुद्धोषितं तद् बाहुल्याभिप्रायेण न तु लक्षणतया / उपमानोपमेयभावविवक्षाया एव निरन्तर शब्दव्यापारात्मिकाया उपमालक्षणत्वात् / / यत्तु साम्यं तदशब्दोपादानं दृष्टान्तेऽपि विद्यते इत्यलक्यव्याप्तिः / शब्दोपादानस्य तु साम्यस्य कस्याञ्चिदेवोपमायां भाव इति लक्ष्याव्याप्तिः / एवमिवादिप्रयोगोऽपि न सर्वस्यामुपमायां वियत इति तत्रापि लक्ष्याव्याप्तिः। उपमानोपमेयभावविवक्षायास्तु निरन्तरशब्दव्यापारात्मिकाया लक्ष्याव्याप्त्यलक्ष्यव्याप्ती न स्त इति तस्या एव लक्षणत्वम् / यच्चेतोहारिसाधर्म्यमित्यनेन लक्षणेन च सैवोपमानोपमेयभावविवक्षा उपद्व्योपदर्शिता / कुतः इति / किं पुनः कारणं साध्यसाधनोपन्यास उपमानेन क्रियते / मुखमिन्दुरिवेत्येवेति / एतदुक्तं भवति / उपमाने कुत्सितः साध्यसाधनोपन्यासः, सहृदयहृदयहरणभ्रंशप्रसङ्गात् / यद्येवं क्रियते मुखमिदमाह्लादकरं कान्तिविशेषातिशययोगादिन्दुरिवेति तदा क्लिष्टं काव्यं स्यात् / यथेदं वक्ष्यमाणमुदाहरणम् / एतदेव दर्शयति तदाह इति / ___ संपति प्रत्युदाहरणोपदर्शन-इति / इह खलु संक्षेपतश्चतुर्विधा काव्यस्य दुष्टता दोषाणां पद-पदार्थ-वाक्य-वाक्यार्थाधारत्वात् / यश्चायं पददोषस्तस्य द्वैविध्यम् / पदानां नेयार्थत्वेनाप्रसन्नत्वेन च / तत्र विवक्षितार्थप्रतिपादनसमर्थानां पदानामनुपादाने नेयार्थता नाम पददोषः / तथाहि-तत्र सर्वेषां पदानां विवक्षितार्थप्रतिपादनोपयोगिनामनुपादानादुपात्तानां पदानां वाक्यार्थं प्रत्यवगमकत्वमपर्यवसितमित्युपात्तानामेव पदानामसौ दोषः, पदानां खलु पदार्थप्रतिपादनं न प्रधानभूतो व्यापारः / वाक्यार्थप्रतिपादने तस्य नान्तरीयत्वात् / अतश्च वाक्यार्थावगत्यभावे पदार्थप्रतिपादनात्मनः पदव्यापारस्य सन्निहितप्रोषितत्वात् पददोषता / यदुक्तम् "वाक्यार्थमतये तेषां प्रवृत्तेर्नान्तरीयकम् / पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्" // इति / तस्य च नेयार्थस्योदाहरणं प्रदर्शितम्-भरतस्वमित्यादि / यः खलु संक्षिप्तार्थाभिधित्सया प्रसिद्धसाध्यसाधनव्याप्तिकदिलीपादिदृष्टान्तोपन्यासेन स्तूयमाने नृपतौ, एवंविधस्त्वम् एवंरूपत्वात् दिलीपादिवदिति साध्यं धर्म विशिष्टमवगमयितुमिच्छति तस्य तन्मनो 1. -मिन्दुरेव क. // 2. 'एतदुक्तं भवति" इति ग. पुस्तके नास्ति / / 3. पदार्थप्रतिपादनस्य / /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy