SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ दोषदर्शनम् तत्र च ब्राह्मणत्वं हेतुतयोपात्तम् / असौ पुरुषविशेषो विद्याचरणसम्पन्नो यतो ब्राह्मणो ब्राह्मणत्वादित्यर्थः इति / वचनवृत्त्यो न चैतदुपपन्नम् / अविद्याचरणसम्पन्नेऽपि व्रात्ये ब्राह्मणत्वस्य विद्यमानत्वेनानैकान्तिकत्वादिति / तदैवंविधे प्रत्यवस्थाने ब्राह्मणशब्दार्थविशेषे सामान्यस्याप्यारोपितत्वात् सामान्यच्छलता / एवमेतच्छलत्रयं व्याख्यातम् / तच्च सुपरिहरत्वेन दूषणाभासत्वाजात्यविशिष्टस्वभावमिति न पृथगुक्तम् / अथ काव्यप्रतिज्ञादयः नाटकादौ हि जातयः इति / एता एव साधर्म्य समादयः / अत एवेदमाह इति / यतः सन्धिवीथीलास्याङ्गेषु लक्षणेषु च जातीनां प्रयोज्यत्वमत एवापरं वक्ष्यते न्याय्यं लक्षणं काव्यसंश्रयमित्यत्र ग्रन्थेऽपरशब्दः सङ्गच्छत इत्यर्थः / तथाहि-अत्रापरं काव्यसंश्रयमित्यपरत्वेन काव्यसंश्रयं वक्ष्यमाणं वस्तु विशेष्यते / एवं च तस्य काव्यसंश्रयस्य वक्ष्यमाणस्यापरत्वं भवति / यदि किञ्चित् काव्यसंश्रयत्वेनोक्तं स्यादिति जातीनां सामर्थ्यादपरशब्दार्थपर्यालोचनया काव्यसंश्रयतयोक्तत्वं प्रतीयते / ततश्च यदेतज्जातिरूपं काव्यसंश्रयं काव्यप्रयोज्यमुक्तं तस्मादन्यन्याय्यं लक्षणं काव्यसंश्रयमभिधास्यत इत्यर्थः सम्पद्यते / ___ सत्काव्याश्रयम् इति / सौन्दर्यादिनिधानभूतशब्दार्थाश्रयमित्यर्थः / शास्त्रगर्भेषु इति / महाकाव्यादिप्रभेदपञ्चकव्यतिरिक्तेष्वित्यर्थः / अनित्यत्वाविना-इति / अयमर्थः / नित्यस्य शक्तौ जननमेव सर्वदा अशक्तौ त्वजननमेव / कार्यस्वरूपं पुनः कादाचित्कम् / तत् कथं नित्यात् पदार्थात् स्यात् , नित्यत्वकार्यप्रसवयोर्विरोधात् / तथाहि-इहात्यन्तासतः कार्यत्वमेव नास्ति / यथा खपुष्पस्य / अत्यन्तसतोऽपि वाऽऽकाशादेः कार्यत्वाभावः / यदेव तु प्रागभावोपलक्षितत्वात् पूर्वमसत्तामनुभवति तस्य कार्यत्वात् / तदिदमुक्तम् “नित्यं न भवनं यस्य यस्य वा नित्यभूतता / न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव // " इति / तदेवमसतो यस्य सत्त्वं तस्य कार्यत्वमिति स्थितम् / तच्च नित्यस्य तद्धेतुत्वे नोपपद्यते / तथाहि-नित्यं यदेतत् कार्यस्य जनकत्वेन भवद्भिरङ्गीक्रियते तत् किं सहकारिनिरपेक्षं कार्यं जनयति उत सहकारिसापेक्षम् / सहकारिसापेक्षत्वेऽपि किं तस्य सहकारिणः किञ्चिद्विशेष जनयन्ति उत न इति / सहकार्याधेयविशेषत्वे च तस्य किमसौ व्यतिरिक्तो विशेषः / आहोस्विदव्यतिरिक्त इत्येतावन्तो विकल्पाः / तत्र यदि निरपेक्षस्य जनकत्वं ततः पूर्वमजनयित्वा उत्तरकालं यदेतज्जनकत्वं तस्यानुपपत्तिः / अजनकस्वभावत्वे हि तस्याजनकत्वमेव प्राप्तम् / अतश्च पश्चादपि न 1. व्यापारेण // 2. कार्यत्वम् // 3. कार्य //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy