SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ कल्पलताविबेके मेवमुक्तम् / सर्वतर्केषु प्रमाणानि स्वमनीषिकाचर्चितान्येव / तदवबोध्यानि पुनः प्रमेयाणि निसर्गसिद्ध्यैवासाराणीति प्रत्यक्षलक्षणं दूषितवान् / सम्प्रत्यनुमानलक्षणार्थमाह-त्रिरूपाद् इति / अनुमेयधर्माश्रये धर्मिणि सत्त्वमेवेति / अनेन पक्षधर्मत्वाख्यं लिङ्गस्य रूपं व्याख्यातम् / तच्चाग्निमान् पर्वतो धूमवत्त्वादित्यत्र 5 धूमवत्त्वलक्षणे हेतौ विद्यते / धूमवत्वस्य पर्वतेऽयोगव्यवच्छेदेन सत्त्वात् / न हि पक्षीकृते पर्वते धूमवत्वेनायोगोऽस्ति / अतो धूमवत्त्वस्य पर्वतें सत्त्वमेव / यस्य तु धर्मिणि सत्त्वं नास्ति तस्य न हेतुत्वम्। यथा अनित्यः शब्दश्चाक्षुषत्वादिति / न खलु शब्दस्य चाक्षुषत्वं, श्रावणत्वात् / धर्मनिष्ठतया सत्त्वे च विद्यमाने यस्यात्यन्तायोगव्यवच्छेदेनैव सत्त्वं न त्वयोगव्यवच्छेदेन तस्य न हेतुत्वम् / यथा अनित्याः परमाणवो गन्धवत्त्वादिति / अत्र हि पार्थिवाप्यतैजस10 वायवीयमनःपरमाणूनां पञ्चानां पक्षीकृतत्वात् , पार्थिवेष्वेव च परमाणुषु गन्धसमवायात् * पक्षीकृते धर्मिगि अत्यन्तायोगव्यवच्छेदेन सत्त्वं न त्वयोगव्यवच्छेदेन, आप्यादिपरमाणुष्वयोगस्यापि विद्यमानत्वात् / तेन यस्यायोगव्यवच्छेदेन पक्षीकृते धर्मिणि सत्त्वं तस्य पक्षधर्मत्वमिति स्थितम् / साध्यद्वारेण समाने पक्षे अनियमात सत्त्वम इति / अनेन सपक्षे सत्त्वमिति 15 यल्लिङ्गस्य द्वितीयं रूपं तत् प्रविभक्तम् / तच्च कृतकत्वधूमवत्त्वादेविद्यते / तथाहि-शब्दानित्यत्वे साध्ये यदा कृतकत्वं हेतुत्वेनोपादीयते तदा तस्य कृतकत्वस्य साध्येनानित्यत्वेन ये समाना घटादयः सपक्षाः [स]पक्षशब्दव्यपदेश्यास्तेषु सर्वेष्वेव विद्यमानता। न हि कश्चिदनित्यो यः कृतको न भवति / तेनास्य सर्वत्र सपक्षे सत्त्वम् / धूमवत्वस्य तु न सर्वस्मिन् सपक्षे वृत्तिः। प्रशान्ताङ्गारावस्थाग्न्युपेते देशे धूमवत्त्वस्याभावात् / तेन धूमवत्वं सपक्षैकदेशवृत्ति / 20 न तु कृतकत्ववत् सपक्षव्यापकम् / यस्य च हेतोः सपक्षव्यापिता यश्च सपक्षकदेशे वर्तते तयोरुभयोरपि साध्याव्यभिचारित्वाद्गमकतेत्युक्तं साध्यद्वारेण समाने पक्षेऽनियमात् सत्त्वमिति / न सपक्षे सत्त्वमेवेति सत्त्वस्य सपक्षविषयतया नियमः / तेन योऽपि सपक्षेऽयोगव्यवच्छेदेन सन्नेव कृतकत्वादिर्यस्य च धूमवत्त्वादेः सपक्षेऽत्यन्तायोगव्यवच्छेदेन विद्य मानता तस्योभयस्यापि हेतुत्वं संगृहीतं भवति / सपक्षसत्ताया अत्यन्तायोगव्यवच्छेद25 मात्रेणेष्टत्वात् अनन्तरोदीरितयोश्चोभयोरप्यत्यन्त[?]योगव्यवच्छेदस्य विद्यमानत्वात् / यत्रापि खल्वयोगव्यवच्छेदस्तत्राप्यत्यन्तायोगव्यवच्छेदो विद्यते / गर्भीकृतात्यन्तायोगव्यवच्छेदत्वादयोगव्यवच्छेदस्य / तदेवं सपक्षे सत्त्वमेवेति न नियमः / किं तु सपक्षे सद्भावमात्रमिति स्थितम् / यस्य तु सपक्षे सत्त्वं नास्ति तस्य सत्यपि पक्षधर्मत्वव्यतिरेकसद्भावे न हेतुत्वम् / यथा अनित्यः शब्दः श्रावणत्वादिति / श्रावणत्वं हि पक्षे विद्यत एव / नित्यानां च
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy