SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके ग्राह्यग्राहकवस्तुशून्यं स्वसंविदितस्वच्छस्वभावं विज्ञानमेव परमार्थसत् यदीत्यर्थः / एतस्य निराकरणं वितथम् इति / असारमेतदित्यर्थः / प्रत्यक्षं तत्त्ववृत्ति हि इति / प्रत्यक्षस्य तत्त्वे ग्राह्यस्य ग्राह्यत्वे ग्राहकस्य च ग्राहकत्वे च व्यापारात्तस्मिंश्च प्रत्यक्ष प्रतिपन्थिनि सति ग्राह्यग्राहकस्वरूपनिराकरगोयुक्तानामनुमानानां प्रत्यक्षविरोधित्वेनानुत्थानादयुक्तमेतदित्यर्थः / एतच्च कणादादिमतेन सुगतमतनिराकरणाय सविकल्पकं प्रत्यक्षं प्रमाणत्वेनाश्रित्योक्तम् / अन्ये त्ववस्तुकं चेदित्यनेन माध्यमिकदर्शनमुपक्षिप्तमिति वर्गयन्ति / तथाहि-माध्यमिकानां दर्शने ग्राह्यग्राहकयोर्विकल्पमात्रसारत्वेन सांवृतत्वे ज्ञानस्यापि तदेकयोगक्षेमत्वेन सांवृतत्वमापतितमिति रूप-वेदना-संज्ञा-संस्कारविज्ञानात्मकस्य स्कन्धपञ्चकस्य तुच्छत्वाच्छून्यतैव परमार्थः / सांवृतेन तु रूपेण स्कन्ध10 पञ्चकस्य व्यवहारोपयोगित्वम् / यदुक्तम् "तत्रार्थशून्यं विज्ञानं योगाचाराः समाश्रिताः / तस्याप्यभावमिच्छन्ति ये माध्यमिकवादिनः // " इति / तस्यापि इति विज्ञानस्यापीत्यर्थः / तदेतदाशङ्कितमवस्तुकं चेद् इति / अवस्तुकं निर्वस्तुकं शून्यमेवेदं सर्वमित्यर्थः / तदुक्तम्-"शून्येभ्य एव धर्माः शून्याः 15 प्रभवन्ति धर्मेभ्यः” इति / शून्येभ्यो धर्मेभ्यः पदार्थेभ्यः शून्याः धर्माः पदार्थाः प्रभवन्तीत्यर्थः / एतन्निराकरणार्थश्च ग्रन्थः वितथं प्रत्यक्षं तत्त्ववृत्ति हीति पूर्ववद् व्याख्येयः / ग्राह्यग्राहकभेदेन इत्यादि / पूर्व ये स्वच्छमेव ज्ञानप्रवाहमिच्छन्ति अभिमानमात्रनिर्मितस्तु ग्राह्यग्राहकसंविद्भेदोऽप्रकाशमान एवेति तेषां योगाचाराणां मतमवस्तुकं चेत्युपन्यस्तम् / अधुना तु ये ज्ञानस्य बाह्यार्थनिरपेक्षस्यैव नीलाद्याकारप्रकाशस्वभावस्य निरंशस्य 20 तत्तद्व्यावृत्तिपरिघटितं ग्राह्यग्राहकसंविद्भेदमुपजग्मुस्तेषां योगाचाराणां मतमुपन्यस्यते / यदुक्तम् __ " सर्वार्थरूपताशुद्धिर्ज्ञानस्य निरुपाश्रयां / ततोऽप्यस्य पैरां शुद्धिमेके प्राहुररूपिकाम् // " इति / अत्रोत्तरार्द्धन पूर्वोपदर्शितो योगाचारदर्शनभेदः प्रतिपादितः, पूर्वार्द्धन त्वधुनातनः / 25 तथाहि- अत्र यदाभासं प्रमेयं तद्यदित्यनीलाद्याकारताव्यावृत्या त्य? व्यावृत्तिपरिघटितः प्रमेयांशो दर्शितः। प्रमा गफलते पुनग्रोहकाकारसंवित्ती इति तु प्रमाणप्रमित्यंशौ सौगतदर्शने च व्यवस्थाप्यव्यवस्थापकभावेन प्रमाणफलभावो न तु जन्यजनकभावेनेति नैतच्चोदनीयम् / कथम् / एकस्वभावनीलाद्याकारप्रकाशस्वलक्षणपरमार्थयोाहकाकारसंवित्त्योः प्रमाणफलभाव 1. अर्थाकारशून्यम् // 2. शुद्धिः // 3. अर्थाकाररहिताम् // 4. भ्याम् / 5. परमार्थे यो ग्राहका-ग. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy