SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ कल्पलताविके उपक्षेपेण-इत्यादि / काव्योपक्षेपेणे हेतुभूतेन तंद्विषये सामाजिकानां या आमन्त्रणा निमन्त्रणं, सिद्धेन सिद्ध्या उपलक्षितमित्थं खल्वतः प्रीतिव्युत्पत्ती भविष्यतस्तस्मादवलोक्यतामेतदिति सा प्ररोचना, प्रकृष्टरुचिहेतुत्वात् / न च तद्वचनात् प्रवृत्तिर्भवतीत्याह-हेतुयुक्तिः इति] हेतोर्या युक्तिर्योजना संक्षेपणाभिधानं तन्निमित्तमस्याः। 5. इदानीममीषां प्रयोगस्य प्रयोजनमाह "आश्रावगायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः / वक्त्रपाणी कृते चैर्वं नित्यं तुष्यन्ति दानवाः / परिघट्टनायां तुष्टाः स्युर्युक्तायां रक्षसां गणाः // सङ्घोटनक्रियायां तु तुष्यन्त्यपि च गुह्यकाः / मार्गासारितमासाद्य प्रीता यक्षा भवन्ति हि // गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः / / वर्द्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः // तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह / तुष्यन्ति लोकपालाश्च प्रयुक्त परिवर्त्तने / नान्दीप्रयोगे च कृते प्रीतो भवति चन्द्रमाः / तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् / रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह / / .......... ................... / तथा चार्यों प्रयुक्तायामुमा तुष्टा भवेदिह // महाचार्यां प्रयुक्तायां तुष्टो भूतपतिर्भवेत् / " अथ नाट्यकलाविरुद्धं यथा "स्थायिनोऽर्थे प्रवर्त्तन्ते भावाः सञ्चारिणो यथा / . रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः // " इति / अत्र स्थायिनो रसस्येति मतत्रयेऽप्यपवाचो युक्तिः / ब्रह्ममते तावत् रसाश्चेतोवृत्तयः सर्वाः, तत्रं च सर्वोऽयं रसस्थायिव्यभिचारिभावव्यवहारः आलूनविशीर्ण इति नेष्टः / भरततच्छिष्यमतयोरपि स्थायिनः इति किं षष्ठ्यन्तं पदम् , उत प्रथमाबहुवचनान्तम् , उतस्वित् पञ्चम्यन्तम् , उताहो द्वितीयाबहुवचनान्तम् / 1. क्षेपण-ग॥ 2. नाटक- // 3. प्रयोक्तृ- // 4 नैव ख. // 5 सगणः / 6. ब्रह्ममते // 20
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy