SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके अहिंसा इति' / अहिंसा प्राणिपीडानिवृत्तिः / सत्यं भूतहितं वाक्यम् / अस्तेयमचौर्यम् / ब्रह्मचर्य कामनिवृत्तिः / अपरिग्रहो द्रव्याद्यस्वीकरणम् / शौचं वाकायमनोमलप्रक्षालनम् / सन्तोषो यथाप्राप्तेन स्थितिः / तपः उपवासादिः / स्वाध्यायः प्रणवादिजपः / ईश्वरप्रणिधानं तद्भक्तिः / यस्मिन् सति स्थैर्येण सुखेन च स्थीयते तत् स्वस्तिकाद्यासनम् / 5 तस्मिन्नासने सति श्वासस्य प्रश्वासस्य च वायुविशेषस्य यो निरोधः स प्राणायामः / स्वविषयः शब्दादिः, तेन असम्बन्धे सति श्रोत्रादीनां चित्तस्य स्वरूपानुकार इव अन्तर्मुखाकारत्वाद् यद्विषयेभ्यः प्रत्याहरणं स प्रत्याहारः / देशे ध्येये चलतश्चित्तस्य यो बन्धः सा धारणा। तत्र प्रत्ययो विज्ञानम् / तस्य एकतानता एकत्रैवार्थे निश्चलता सैव ध्यानमुच्यते / तदेव ध्यानमर्थमात्राकारं स्वरूपेण शून्यमिव, तदाकारपरिणतत्वात् समाधेः / 10 सत्त्वप्रधाना बुद्धिः / सत्त्वं पुरुषः / आत्माह्लाद इन्द्रियसमाधिसुखम् / एकरूपात्मिका अर्थमात्रा संवित् , अभेददर्शनमित्यर्थः / विरामो वैराग्यं परमित्यर्थः / तदात्मको यः प्रत्ययः तस्याभ्यासः परा कोटिः तत्पूर्वस्तत्कारणकः संस्कारमानं ध्येयशून्यं यत् सोऽन्योऽसंप्रज्ञातो निर्बीजः समाधिरित्यर्थः / सर्वाः क्लिष्टाक्लिष्टाः क्लेशहेतुभूनाः संसारिणां विपरीताश्च योगिनां याः प्रमाणविपर्ययविकल्पनिद्रास्मृतयो वृत्तयः तासां प्रत्यस्तमये विरामे 15 निमित्तभूते इत्यर्थः / प्रमाणं प्रत्यक्षादि / विपर्ययो मिथ्याज्ञानम् / शब्दज्ञानानुपाती वस्तु शून्यो विकल्पः / अभावप्रत्ययावलम्बना वृत्तिर्निद्रा / अनुभूतविषयासम्प्रमोषः स्मृतिः / वैराग्यं द्विविधम् / परमपरं च / नृत्तनाटय-इति / पाठ्यरहितं करणाङ्गहारादिनिर्वत्यै ताण्डवादि नृत्तम् / पाठ्यपूर्वीकारेण ध्रुवा-गीत्यादियुक्तं करणाङ्गहारादिसाध्यं नाटकादि दशरूपकं नाट्यमिति 20 संक्षेपेण ज्ञेयम् / ग्रामरागविशेष इति / द्वौ हि ग्रामौ / तथा चाह / " स्वराः षड्जादयः सप्त ग्रामौ द्वौ षड्जमध्यमौ / . . केचिद् गान्धारमप्याहुः स तु नेहोपलभ्यते // " एवं च सति मध्यमग्रामस्य षड्जग्रामाद् ग्रामविशेषत्वमुपपन्नम् / रागत्वं च रञ्जकत्वसाम्यात् / 25 आघट्टनया इति आहननेनेत्यर्थः / नभस्वतः इति / हेतौ पञ्चमी। कृयोगे कर्त्तरि वा षष्ठी। ग्रामविशेषमूर्च्छनाम् इति / मूर्च्छनानां किल द्वैविध्यमेव स्थितम् / तथा हि / षड्जग्राममूर्च्छनात्वेन सप्त / मध्यमग्राममूर्च्छनात्वेन च सप्त / तथा चाह 1-2. इत आरभ्य ‘वैराग्यं द्विविधं परमपरं च' इत्यन्तः पाठः ख. ग पुस्तकयो स्ति //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy