SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके किमिदमित्यादि / असम्बद्धं परवचनं क्षिपन् कश्चिद् एतद्वाक्यमुक्तवान् / तत्र किमिदमसङ्गतमस्मिन्निति सोपहासमनुवादोऽयम् / अस्मिन् वस्तुनि किमिदमसङ्गतं, न किञ्चिदसङ्गतम् / यादृशं त्वं ब्रवीषि तादृशमेवेति / अयमर्थः / सर्वमसङ्गतमेवेदमिति / कुत इत्याह आदावित्यादि / चो हेतौ। यस्मादादावन्यदुक्तं तथान्तेऽन्यदिति / अत्रैव दृष्टान्तमाह5 यत्नेनेत्यादि / माषवापे कोद्रवोत्पत्तिर्यादृक् ताटगेवेदमित्यर्थः / परमतस्यासम्बद्धताप्रतिपादनकारणेनार्थस्वभावो यद्यप्यन्यथोपनिबद्ध इव भासते तथापि कोद्रवोत्पत्तिलक्षणोऽर्थः पश्चादुच्यमानस्तद्वक्तृकमेव पूर्वोक्तं माषवापलक्षणमर्थं बाधयेत् / अयमंशोऽत्रोद्भूततर इति बाधयन्निति दोषेऽपवादोऽयमुपदर्शितः / मुग्धाया इति / मुग्धाशब्दस्य मनोहरार्थत्वेऽदुष्टत्वादिदमुदाहार्यम् / वपुरनुपमं नाभेरूज़ विधाय मृगीदृशो ललितललितैरङ्गन्यासैः पुरा रभसादिव / तदनु सहसा खिन्नेनेव प्रजापतिना भृशं __ पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली / / क्रियाविशेषणत्वेऽपि इति / मधुरं विशदाक्षरशालि च जगादेति। न युक्तमुक्तम् 15 इति / वामनेनेत्यर्थः / चरणत्रपरित्राण-इति / अत्र हि चरणत्रेत्यादिविशेषणं पादयोरेव सङ्गच्छते, न तु व्रजेः, तेन क्रियाविशेषणत्वे विवक्षितार्थप्रतिपत्त्यसिद्धेश्चरणत्रपरित्राणरहितत्वलक्षणस्य विशेषणस्य दानाय वजिनैव गतार्थस्यापि पादाभ्यामिति विशेष्यस्य प्रयोगो युक्तः। तत्तदेव इति। तदेव तदेवेत्यर्थः। स्थूलत्वेन शब्दपुनरुक्तस्यानुपवर्णनात् सर्वथा परिहारः प्राप्नोति / इष्यते च तत् कचिदत आह-भयशोक-इति / जने इति / स्थितेऽपि सतीति शेषः / 20 कविवर्णनम् इति। "कृत्यल्युटो बहुलम्” इति कर्मणि ल्युटि कविभिर्वर्ण्यते इत्यर्थः / यदि वा कविवर्णनविषय एव कविवर्णनमित्युपचारः। एकार्थावपि इति न दुष्टावित्यर्थः / विदीर्ण-इति / अत्रारूढत्वावगतेः प्रयोजनं विवक्षितार्थप्रतिपत्तिः / न ह्यसत्यां तदा रूढिप्रतीतौ ज्याकिणचितून दोष्णा इत्युक्तेऽनवरतदृढाकर्षणाहितकिणमण्डितत्वं दोष्णः प्रतीयेत। बेष्टयमानेऽप्यमानया ज्यया कृतकिणचिह्नत्वस्य सम्भवात् / यत्र पुनरेतन्न विवक्षितं तत्रो25 पादीयते न धनुःशब्दः / शशिधरधनुर्येत्यादौ तु विशेषणस्य चेति वक्ष्यमाणः परिहारः / दोलाविलासेषु इति / अत्र विलासनिर्वाहार्थं प्रतिनियतस्वदेशसन्निहितैराभरणैः प्रयोजनमिति तदर्थं कर्णशब्दप्रयोगः / एवमुत्तरयोरपि वाच्यम् / तत्रापि लीलापदेन लीलावत्त्वस्योक्तेः / अदादिन्द्राय कुण्डले इत्यादौ तदविवक्षायां न कर्णशब्दप्रयोगः।। 1. रूढ-ख. // 2. भुजे //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy