SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके अथ कासावयुक्तिर्नाम यतिसन्धिस्थानं पूर्वापरदीर्घस्वरवत् / यथाआपन्नस्वपरोपभुक्तविभवा आदाय शुभ्रं यशः शोभन्ते मलिनार्धजीर्णवसना दौर्गत्यमप्यागताः / सन्तो न त्वपरे सुवर्णकटकौवेयकाद्यज्ज्वलाः सत्तामात्रफलैरभङ्गयुपचितैरायास्यमाना धनैः // _अत्र ह्याद्यपादे यतिस्थाने दीर्घवत्यसन्धौ वाक् त्रुटितेवै लक्ष्यते इत्ययुक्तित एतदसन्धिपदं सकृदपि दुष्टम् / यदिहान्यद इति / अत्र स्वरसन्धिकृतेऽपि नाम्नोऽन्यशब्दस्य भेदे यतिभ्रष्टत्वप्रतीतेरश्रव्यत्वम् / इय णवर इति / एष केवलं सकारभकाराविति बन्धशैथिल्यादश्रव्यावित्यर्थः / कन्या इति कुमारी, अद्य यावदेनं विमुच्य नानया कश्चिदन्यो 10 विहित इत्यर्थः / यतिभ्रष्टताभाष-इति / यतिभ्रष्टमेतदिति न कश्चिद् भाषते न चानुभवतीत्यर्थः / भ्रमति भ्रमर इति / अत्रास्थाने गुरुः कृतः / एवमस्थानल्यावप्युदाहार्यम् / विकसितसहकारेत्यादि / धातुनामभागभेदे इति / यदि धातुनाम्नोआंग इति व्याख्या तदा ‘एतासां राजति' इत्यदुष्टमेव स्यात् , जकारस्यानच्कतायामसत्कल्पत्वेन 15 सकलस्यापि धातोर्भिद्यमानत्वात् / - 'एताभ्यो दास्यति सुमनसां दाम कण्ठेऽवसक्तम् / ' इति तु निर्विवादमेवादुष्टं भवेत् / 'कुरङ्गाक्षीणां कुत्र रुचि र रुचिरे लुभ्यति जनः / ' इति च / अथैतदानुगुण्येन पदापेक्षया धातुनामनी च ते भागौ च ताविति तदा एतासां जागृहीति, कुरङ्गाक्षीणां 20 गण्डेति चापरिहार्यं स्यात् / अथैवमेकतः सन्धीयमानमन्यतस्त्रुट्यतीत्येकशेषेणोभयमप्याश्रयणीयम् / तदा शोभां पुष्यन्ति बत सुतरां सुन्दरीणां विलासाः / __ विमिश्रः श्यामान्तेषु मलयसमीरप्रसरणैः। . इत्यादिधातुनामभागातिरिक्तभागभेदे / कवीनां सूक्तैर्हन्त लसति सुधाक्तं मम मनः / इत्यादि निपातादिभेदे चादरणीयमेव स्यात् / तस्मात् “तद्धातुनामभाग” इत्यादिसूत्रस्थाने " तत्पदमध्यभेदे " इति वाच्यम् / शोभां पुष्यत्ययमिति, विमिश्रः श्यामान्तेष्वररी रति 1. मत्वर्थीयः // 2. अन्यायोपार्जितैः // 3. वा कुटिते च इति मूळे // 4. धातुनाममेद इति ख. // 5. सुमनसा ख. // 25
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy