SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके पहामित्रेत्यादिना यौगिकेन पर्यायेणेति / पूर्वपदमेव इति / अत्राप्युत्तरपदमग्निप्रभृतिना न त्वचिंष्मदित्यादिनेत्यर्थः। ___कल्पितार्थम् इति / विनैव शब्दव्यापारसंस्पर्श लक्षितलक्षणादिनाऽर्थस्य कल्पनात् समारोपणादित्यर्थः। दशसङ्ख्या इति लक्षितलक्षणया। तथा हि-पङ्क्तिशब्दः पङ्क्तिच्छन्दो5 गतान्यक्षराणि लक्षयित्वा तद्गतां दशसङ्ख्यां लक्षयति / विहङ्गम-इति पक्षिलक्षणसामान्य रूपार्थवाच्यपि विशेषे लेक्षितः / तन्नामभृतः इति। तन्नामानि चक्राणि बिभ्रति ये तन्नामेव नाम येषामिति "सप्तम्युपमानपूर्व[ पद ]स्योत्तरपदलोपश्च" इत्यनेनोपमानभूतस्य नामपदस्य लोपः। अत्र 'उलूकजिता' इति व्यक्तमुदाहरणं नेयार्थस्य, पङ्क्तीत्यादि तु नेयार्थस्य क्लिष्टस्य च, पङ्क्तिविहङ्गमनामेत्यंशे कल्पितार्थत्वात् , तद्धृतो रथा इत्यत्रांशे व्यवहितार्थ10 प्रतीतिकारित्वाच्च। अत्रिलोचन इति / अत्रैकपदप्रत्याय्योऽप्यर्थः कुमुदलक्षणोऽत्रीत्याद्यनेकपदप्रत्यायितार्थपर्यालोचनाव्यवहिततया क्लिश्यमानो वाचकस्य क्लिष्टतामावहति। काञ्चीगुणस्थानम् इति / अत्र रूढत्वादवान्तरपदार्थप्रत्ययमन्तरेणैवैकपदवदर्थप्रतीतिरिति नैतत् क्लिष्टम् / अनुशयम् इति पश्चात्तापं कोपं च / अभिमनाः इति प्रसन्नमना निर्भयचित्तश्च / 15 माननाम् इति पूजां निबर्हणं च / अपुष्टार्थम् इति / यत्रैकशब्दप्रतिपाद्योऽप्यर्थो निरभिप्रायैर्बहुभिः शब्दैः प्रतिपाद्यते तदपुष्टार्थम् , यत्र तु साभिप्रायबहुशब्दप्रयोगस्तत्र न दोषः / यथाया स्रष्टुः सृष्टिराद्या पिबति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् / यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः" ___प्रत्यक्षाभिः प्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः // " 'द्विरष्ट' इति / वाक्यखण्डद्वयेनोदाहरणत्रयम् / मडहादि इति / मडह-लडह-होरणकन्दोह-एल्ल-हुक-कुसुमाल-वाणवालादिकं यथाक्रमं सूक्ष्म-श्रेष्ठ-वस्रोत्पल-दरिद्राञ्जलि चौर-शक्रादिवाचकम् / रूढिः इति रूढिभ्रान्त्या / कश्चिद्धि स्वदेशप्रसिद्धयाऽस्यार्थस्य 25 शब्दोऽयं सर्वत्रे वाचक इति मन्यमानः प्रयुञ्जीत / "व्युत्पत्तिर्यस्य नास्ति' इति वचनाच्च सव्युत्पत्तिकं देश्यं कदाचित् प्रयोज्यमेवेत्युक्तं भवति यथा-दूर्वायां छिन्नोद्भवाशब्दः, ताले 1. लक्षणाविषयीकृतः // 2. रथ-॥ 3. मारणम् // 4. आगमस्वरूपनिरूपणेन साभिप्रायत्वम्॥ 5. जलम् // 6. अग्नि // 7. यजमानरूपा // 8. सूर्यचन्द्राख्ये // 9. नभः // 10. क्षितिः // 11. वायुः // 12. [ सृष्टिः स्रष्टु-, वहति, प्रपन्नः इति पाठान्तराणि / ] 13. देशे // . 20
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy