SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 10 काव्यशिक्षा पाहुणयहत्थेग सप्पमारणं एयम् / भग्नो हि कलशो हैमो न तुल्यः कलशान्तरैः अहिरुच्छीर्षके, वैद्यो विद्यते योजने शते / स्वसुः पुष्पाणि बध्यन्ते स्वसुरेव हि सत्यगीः / न भाति चरणे बद्धं करभस्य हि नूपुरम् / गृहीता बलिभिर्बाढं कूदते स्थविरापि यत् / ममर्द गर्दभस्यापि स्वार्थे पादौ जनार्दनः / किं तेन कुण्डलेनापि येन पुटयति पालिका / सच्चा किं न भवन्ति जे दूरं गया जक्खा / / चोराणंपि धणं न थिरं हवइ / धर्महस्तोऽपि संप्राप्तो न रासभ्यपि जातुचित् / यत्र वा तत्र वा यातु कर्पासो हन्त लोड्यते / स्निग्धं दृष्ट्वा शिरोऽन्यस्य ताडयेत् स्वं न मुष्टिभिः / पश्य पूत्कृत्य फूत्कृत्य मूषकोऽप्यत्ति मानुषम् / हट्टान्तरगतमपि वलते कूटनाणकम् / नग्नक्षपणकग्रामे रजक[:] किं करिष्यति // [ इत्याभानकाः।] परिचयाः। तर्कपरिचयात् काव्यं, यथा यत् प्राप्यं न मनोरथैर्न मनसा स्वप्नेऽपि दृष्टं न यत् तत्रापि स्मरविप्रलब्धमनसां लोभाभिमानग्रहः / मोहोत्प्रेक्षितशुक्तिकारजतवत् प्रायेण यूनां भ्रम दत्ते तैमिरिकद्विचन्द्रसदृशं खे नूनमाशाकृषिः // 32 // व्याकरणपरिचयो यथा--- द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः / तत्पुरुषः कर्मधारयः येनाहं स्यां बहुव्रीहिः // 33 // भरतपरिचयो यथा-- आतन्वन् सरसां स्वरूपरचनामानन्दिबिन्दूदयं भावग्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति / ' 20
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy