________________ 70] सटिप्पणकम् [सर्गः 7 चरणकिसलये यावकभरणं जनयति उत्पादयति / चरणमेव किसलयं नवपल्लवतुल्यं तस्मिन् / यावकस्य अलक्तकस्याभरणं तत् किम्भूतम् / वहिरपवरणम् वरणस्य बहिः। अपवृणोतीति आच्छादयतीति अपवरणं तत् / किम्भूते। नखमणिगणपूजिते नखा एव मणयो रत्नानि तेषां गणः समूहः तेन पूजितं अलंकृतम् तस्मिन् / पुनः किम्भूते / हृदि योजिते हृदये संनिहिते / रमयतीत्यादि। रैमयति सुदृशं कामपि सदृशं खलु हलधरसोदरे / किमफलमवशं चिरमिह विरसं वद सखि विटपोदरे // 7 // हे सखि इह विटपोदरे शाखालतावृतकुजाभ्यन्तरे अवशं परवशं निष्फलं [विरसम्] उद्वेगकरं यथा स्यात् तथा चिरं किं विलम्बः। किमिति त्वं वद / कस्मिन् सति / हलधरसोदरे बलदेवानुजे कृष्णे खलु निश्चितं सदृशं स्वयोग्य यथा स्यात् तथा कामप्यङ्गनां रमयति सति / किम्भूताम् / सुदृशं शोभने दृशौ लोचने यस्याः सा तथा ताम् / इह रसभणन इत्यादि। इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके / कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके // 8 // इह कविनृपजयदेवके किमपि दुरितं पापं न विशतु / अथवा न वसतु / न तिष्ठतु / न प्रवेशं करोतु / किम्भूतम् / कलियुगवरितं कलियुगस्य चरितं कलिहेतुकमित्यर्थः / कवीनां नृपः कविचक्रवर्ती स चासौ जयदेवश्च तस्मिन् / किंलक्षणे। कृतहरिगुणने कृतं हरिगुणनं हरिसंकीर्तनं येन सः तस्मिन् / 'कुत्र संकीर्तनं कृतम् / इह / गीते। रसभणने रसस्य शृङ्गारस्य भणनं यस्मिन् तत्तथा तस्मिन् / पुनः किम्भूते जयदेवके / मधुरिपुपदसेवके मधुरिपोः श्रीकृष्णस्य पदसेवकोऽत्यन्तभक्तस्तस्मिन् / दुःखेन दुःखितां समागतां दूतीं प्रति राधा प्राह / नायात इत्यादि। नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् / पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणै __ रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति // 6 // हे सखि दूति शठो धूर्ती मन्दो यदि नायातो नागतः। किम्भूतः। निर्दयः निर्गता दया कृपा यस्मात् स तथा / तर्हि किमर्थं त्वं दूयसे परितापं कुरुषे। अनागमने हेतुमाह / स श्रीकृष्णः स्वच्छन्दं स्वेच्छया यथा भवति तथा रमते विहरति / 1) P drops उत्पादयति। 2) A पूजितेऽलंकृते पुनः हृदि योजिते / 3) A रमयति सदृशं कामपि सुदृशं / 4 ) A°मवसं / 5) A विशतु / 6) P drops कलियुगस्य चरितं / 7) B drops * कुत्र to कृतम् / 8) B अनागमनहेतु /