SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रलोकः 3] गीतगोविन्दकाव्यम् [65 कथम्भूता। हरिपरिरम्भणेन श्रीकृष्णाश्लेषेन चलितो विकारो मदनजनितरसो यस्याः सा। पुनः किम्भूता। कुचकलशोपरि तरलितहारा / कुचावेव कलशौ तयोरुपरि तरलितोऽस्थिरो हारो यस्याः सा तथा / विकचजलजेत्यादि। 'विकचजलजललिताननचन्द्रा / तदधरपानरभसकृततन्द्रा // 3 // पुनः किम्भूता। विकचजलजललिताननचन्द्रा। विकचं विकसितं च तत् जलजं पद्मं च तद्वत् ललितम् आननमेव चन्द्रो यस्याः सा तथा। विचलदलकललिताननचन्द्रा इति पाठे। विशेषेण चलन्तश्च ते अलकाचूर्णकुन्तलाप्रचेति तैललितः आननचन्द्रो यस्याः सा तथा। पुनः कथम्भूता। तदधरपानरभसकृततन्द्रा। तस्य श्रीकृष्णस्य गाढालिङ्गनानन्तरं यत् अधरपानं तस्य रमसः क्रीडाबलात्कारः तेन कृता तन्द्रा सुखानुभवो अलसजनितेषन्नतमुद्रताभावो [ ? मुद्राभावो] यस्याः सा तथा / चञ्चलकुण्डलेत्यादि। चञ्चलकुण्डलदलितकपोला / मुखरितरसनजघनगतिलोला // 4 // कथम्भूता सा। चञ्चले च ते कुण्डले चेति ताभ्यां 'दलितौ अभिहता कपोलौ यस्याः सा तथा। पुनः किम्भूता। मुखरितरसनजघनगतिलोला / मुखरिता शब्दायमाना रसना क्षुद्रघण्टिका जघनयोर्गत्या लोला चञ्चला यस्याः सा तथा / दयितविलोकितेत्यादि। दयितविलोकितलज्जितहसिता। बहुविधकूजितरतिरसरसिता // 5 // कथम्भूता सा। दयितो माधवस्तस्य विलोकितं तेन लज्जिता हसिता चेति / अत्र स्थितेन केशवेन मम पुरः सर्वाङ्गमवलोकितं निरूपितं च स्त्रीस्वभावाल्लज्जिता / मया अबलया कदापि विपरीतेन रतेन किं स भवान् वञ्चयितव्य इति हसिता। पुनः किम्भूता। बहुविधेन सारस-पारावत-लावकादिशब्दवत् कूजितेन रतिरसेन कोकपञ्चसायकादिकामशास्त्रशृङ्गारे रसितं शब्दितं यया सा तथा / 1) B विचलदलकललिता / 2) B विचलदलकललिताननचन्द्रा / 3 ) B_drops this line. / 4 ) B drops गाढा यत् / 5 ) A अलसजनितेषन्नर्तनमुद्राभावो; B अलसजनितनिमेषनर्तनमुद्रताभावो। 6) A, B ललित। 7) A ललितौ कपोलौ यस्याः सा तथा /
SR No.032754
Book TitleGitagovinda Kavyam
Original Sutra AuthorN/A
AuthorJayadeva, King Manaka, V M Kulkarni
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages162
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy