SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्लोकः 7] गीतगोविन्दकाव्यम् हे केशव / धृतनरहरिरूप / नरहरिनृसिंहः। धृतं नरहरेः रूपं येन स तथा। तव करकमलवरे नख तिष्ठति। कर एव कमलवरं पद्मश्रेष्ठं तस्मिन् / किंभूतं नखम् / अद्भुतगृङ्गम् / अद्भुतमाश्चर्यजनकं शृङ्गं अग्रभागो यस्य तत् / अदृष्टपूर्वमित्यर्थः / पुनः किंभूतम् / दलितहिरण्यकशिपुतनुभृतम् / हिरण्यकशिपोस्तनुः शरीरं सैव श्यामत्वाद् भृङ्गः / दलितो विदारितो हिरण्यकशिपोस्तनुभृङ्गो येन स तथा तत् / छलयसीत्यादि छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरजनितजनपावन / केशव धृतवामनरूप जय जगदीश हरे // 5 // हे केशव / धृतवामनरूप / धृतं वामनं रूपं येन स तथा तस्य संबोधनम्। हे अद्भुतवामन / त्वं बलिं छलयसि प्रवञ्चयसि / कस्मिन् विषये / विक्रमणे / विः पक्षी विरुद्धः तस्याक्रमणं तस्मिन् इति ध्वनिः। विक्रमणविषये हे पदनखनीरजनितजनपावन / पदस्य नखाः पदनखाः तेषां नीरं जलं तेन जनितं उत्पादित जनाय पावनं पवित्रीभावो येन स तथा तस्य संबोधनम् / क्षत्रियेत्यादि क्षत्रियरुधिरमये जगदपगतपापं स्नपयसि पयसि शमितभवतापम् / केशव धृतभृगुपतिरूप जय जगदीश हरे // 6 // हे केशव धृतभृगुपतिरूप / धृतं भृगुपतेः रूपं येन सः / भृगुपतिः परशुरामः / तस्य संबोधनम् / त्वं जगत् संसारं स्नपयसि स्नानं कारयसि / कस्मिन् / पयसि पानीये / किंभूते / क्षत्रियरुधिरमये / क्षत्रियाणां रुधिरं तदेव स्वरूपं यस्य तत्तथा तस्मिन् / किंभूतं जगत् / अपगतपापम् / स्नानमात्रेण अपगतं नष्टं पापं यस्य तत्तथा / पुनः किंभूतम् / शमितभवतापम् / शमितः शान्ति प्रापितो भवस्य संसारस्य तापो येन तत्तथा / वितरसीत्यादि वितरसि दिक्षु रणे दिक्पतिकमनीयं दशमुखमौलिबलिं रमणीयम् / केशव धृतरघुपतिरूप जय जगदीश हरे // 7 // 1) B adds अद्भुतः अदृष्टपूर्वः दैत्यानां(दैत्यान्) वामयतीति वामनः अद्भुतश्चासौ वामनश्च तस्य संबोधने हे अद्भुतवामन / 2) P, B drop पयसि / 3) B drops from तस्मिन्......पापं यस्य तत्तथा / 4) B धृतहलशरीरः but in the body of the text of the commentary it reads correctly: धृतरघुपतिरूप /
SR No.032754
Book TitleGitagovinda Kavyam
Original Sutra AuthorN/A
AuthorJayadeva, King Manaka, V M Kulkarni
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages162
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy