SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ क्रमाङ्कः परिशिष्टम्-४ // टिप्पणिकागतविशिष्टशब्दनिरुक्तिः / पृष्ठाङ्कः ___ निरुक्तिः जगन्ति ईष्टे नियमयतीति जगदीशः / हरति संसारक्लेशमिति हरिः / अहरहः अविद्यां तत्कार्यसंसारं [च] हरतीति हरिः / रोगशोकसन्तापादिकं हरतीति हरिः / मधुं दैत्यं सूदितवानिति मधुसूदनः / मनसि जायत इति मनसिजः / कलिं पापं द्यति खण्डयतीति कलिन्दः (सूर्यः) / मनसि जातः मनसिजः / विधु चन्द्रं तुदति व्यथयतीति विधुन्तुदः / कुलान्यटन्तीति कुलटाः / मनसि भवतीति मनोभूः। अपवृणोतीति आच्छादयतीति अपवरणम् / मनसि (अधिकरणे) आयत इति मनसिजः / मनसि भवतीति मनोभवः / स्वप्रेयसीनां कामव्यथां हरतीति हरिः / राधिकेति / रः कामस्तेनाधिय॑था तस्य के प्रकाशे सतीति शेषः [1] / नारायण नारा आपस्तासामयनमाश्रयं निधिमिति यावत् [1] आपः अयन-स्थानं यस्य सः नारायणः इतीयं निरुक्तिः अत्र समीचीना दृश्यते / मानं द्यति खण्डयतीति मानदः / मानोन्नतिं ददातीति मानदः / मानसे हृदये जायत इति मानसजः / शम्बरं दैत्यं (? दैत्यनाम) दारयतीति (? दारितवान् इति) शम्बरदारणः /
SR No.032754
Book TitleGitagovinda Kavyam
Original Sutra AuthorN/A
AuthorJayadeva, King Manaka, V M Kulkarni
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages162
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy