SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [47 प्रथमो वृक्षकाण्डः। हरीतक्यभया पथ्या प्रपथ्या पूतनाऽमृता / जयाऽव्यथा हैमवती कायस्था चेतकीति च // ] इति / एतस्या लोके 'हरडई' इति प्रसिद्धिः / विभीतके भूतवासो वासन्तोऽक्षो बहेटकः॥८१॥ संवर्तकः कर्षफलः केल्को हार्यः कलिद्रुमः / कर्षो दैन्यो मधुबोजो धर्मद्वेषो विभेदकः // 82 // बिभेति अस्माद् बिभीतकः, “भियो द्वे च” [हैमोणादिसू 0 78] इति तकक् , त्रिलिङ्गः, तत्र / भूतानां वासो भूतवासः / वसन्ते भवो वासन्तः, भर्तु-सन्ध्यादेरण्" [सिद्ध 0 6.3.89] इत्यण् / अक्ष्णोति-व्याप्नोति अक्षः, अच् ; अश्नुते वा “मा- 10 वा-वद्यमि-” हैमोणादिसू० 564] इति सः। वहीं प्रापणे" वहते बहेटः, 'कपटकीकटादयः" [हैमोणादिसू० 144] इत्यटे निपात्यते, स्वार्थिके के बहेटकः // 81 // संवृत्यते अनेन संवतः, स्वार्थिके के संवर्तकः / कर्ष इव फलान्यस्य कर्षफलः। अक्षसामान्याद् अक्षकोंऽपि बिभीतके पलचतुर्थभागे च वर्तते / “कलि शब्द-संख्यानयोः” कल्यते कल्कः, "भीण-शलि-” हैमोणादिसू० 21] इति कः / 15 दैन्यहेतुत्वाद् दैन्यः / मधु-मृष्टं बोजमस्य मधुबीजः। धर्मस्य द्वेषी धर्मद्वेषी / बिभेति अस्माद् बिभेदकः, 'कीचक-पेचक-" [ हैमोणादिसू० 33] इत्यके निपात्यने / ' 20 बिभीतकः कर्षफलो वासन्तोऽक्षः कलिद्रुमः / संवर्तको भूतवासः कर्षों हार्यो बिभेदकः // ___] इति / 25 अहार्य बहुवीर्यं च तुमूलं च बिभेदकम् / ] इति / एतस्य लोके 'बहेडा' इति प्रसिद्धिः // 82 // 1 कलिबासः कलि° नि० // 2 कर्षों दोत्यो मधु नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy