SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [ 38] सटीके निघण्टुशेषे [प्रलो० ६६"शुक्लत्वग वा” इति क्षीरस्वामी / नेमिश्चासौ वृक्षश्च नेमिक्षः / श्यामः सारोऽस्य श्यामसारः / पथिद्रुमः सप्तम्यलुक् / आह च . खदिरः श्वेतसारोऽन्यः सोमवल्कः पथिद्रुमः / श्यामसारो नेमिवृक्षः कामुकः कुब्जकण्टकः // ] इति / श्वेतखदिरनामानि // 65 // विखदिरे त्वरिमेदो गोधास्कन्धोऽरिमेदकः / अहिमारोऽरिमः पूत्यरिमेदो मुखशोधनः // 66 // _ विट्-विष्ठा तद्गन्धः खदिरः विट्खदिरः पूतिखदिराख्यः, तत्र / 10 अरिः-दुस्सहो मेदः-स्रावोऽस्य अरिमेदः / गोधेव स्कन्धोऽस्य गोधास्कन्धः / अरि मेद एव अरिमेदकः, स्वार्थिकः कः प्रत्ययः / अहीन् मारयति अहिमारः / अरिरिव मथ्नाति गन्धेन नक्रमिति अरिमः, “कचित्” [सिद्ध 0 5. 1. 171] इति डः / पूतिश्चासौ अरिमेदश्च प्रत्यरिमेदः / मुखस्य शोधनो मुखशोधनः / आह च--- अरिमेदोऽरिमेधश्च गोधास्कन्धोऽरिमेदकः / अहिमेदोऽहिमारश्चारिमः पूत्यरिमेदकः // [ ] इति / एतस्य लोके 'अरंजु' इति प्रसिद्धिः // 66 // शाल्मलौ तृलिनी मोचा पिन्छिला चिरजीविता / कुक्कुटी पूरणी रक्तकुसुमा घुणवल्लभा // 67 / / कण्टकाढया नलफली "शाङ् श्लाघायाम्” ऋफिडादित्वाद् डस्य लत्वे शालते दैर्ध्यात् शाल्मलिः;"शल गतौ" ण्यन्तः, शालयति वा, “मा-शालिभ्यामोकुलि-मली" [ हैमोणादिसू० 703] इति मलिः प्रत्ययः, पुं-स्त्रीलिङ्गः, तस्याम् / तूलमस्त्यस्याः तूलिनी / मुञ्चति रसं मोचा, लिहादित्वादच् / पिच्छा अस्त्यस्याः पिच्छिला, “लोम-पिच्छादेः शेलम्" 25 [सिद्ध० 7. 2. 28] इतीलः / चिरं जिवितमस्याश्चिरजीविता, अत एव स्थिरायुः स्थिरजीविका च / “कुकि वृकि आदाने' कुक्यते कुक्कुटी “नर्कुट-कुक्कुट-" [हैमो 1 त्विरिमिदो नि० // 2 विरजाविता नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy