SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 387 ] षष्ठो धान्यकाण्डः / 209 गर्भे पच्यते स्वयमेवेत्येवंशीलो गर्भपाकी, णिनि प्रत्यये न्यङ्कादित्वात् साधुः, तत्र / षष्टिरात्रेण पच्यते षष्टिकः, “यव-यवक-षष्टिकाद् यः” [सिद्ध० 7.1.81] इत्यत्र षष्टिकेति निर्देशात् साधुः / आह चषष्टिकः कङ्गुकः पीत-प्रमोदक-मुकुन्दकाः / ] इति // 386 // शालौ तु कलमाद्याः स्युः शलति शालिः, पुंल्लिङ्गः, “कमि-वमि-" [ हैमोणादिसू० 618 ] इति णिदिः / कलमः आयो येषां ते कलमाद्याः / कलमे तु कलामकः / कडति-माद्यति अनेन कडमः, लत्वे कलमः, “सृ-प-प्रथि-" [ हैमोणादिसू० 10 347] इत्यमः, तत्र / कलां-कलनाममति कलामकः / लोहिते रक्तशालिः स्यात् लोहितो वर्णेन / रक्तश्चासौ शालिश्च रक्तशालिः / महाशालौ सुगन्धिकः // 387 // महांश्चासौ शालिश्च महाशालिः, तत्र / शोभनो गन्धोऽस्य सुगन्धिः, “सु- 15 पूत्युत्सुरभेः-'' [सिद्ध 7.3.144] इति इत् समासान्तः, स्वार्थिके के सुगन्धिकः / एते सर्वेऽपि शालिविशेषाः / आह च रक्तशालिलोहितः स्याद् गरुडः शकुनाहतः / पुण्डरीको महाशालिः कलमस्तु कलामकः // रक्तशालिदीर्घशूकः पुण्ड्रो महिषमस्तकः / - 20 पूर्णचन्द्रो महाशालिः पुण्डरीको प्रमोदनः // पुष्पाण्डकः शीतभीरुः काञ्चनः शकुनाहृतः / पाण्डुर्गौरः शारिवाख्यो रोध्रपुष्पः सुगन्धिकः / / हायनो दीर्घनालश्च ] इति // 387 // 25 27 ..
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy