________________ 360 ] चतुर्थः शाककाण्डः। 193 हिलाद्-वीर्याद् मोचयति हिलमोची, तस्याम् / शङ्ख धरति शङ्खधरा / जलस्य ब्राह्मी जलब्राह्मी / मोचयति मोचिका // 358 // कलम्ब्यां तु शतपर्वा 'कडम्बी वायसी च सा। कलम्बतेऽस्याः कलम्बी, तस्याम् / शतं-बहूनि पर्वाण्यस्याः शतपर्वा / "कड मदे" कडति कडम्बी, "कृ-कडि-कटि-वटेरम्बः" [ हैमोणादिसू० 321 ] इत्यम्बः। 5 वायसी वर्णेन / कारवेल्ले तु सुषवी कटिल्लो मृदुपर्णकः // 359 // ___ "वेल्ल गतौ” कारेण वेल्लति कारवेल्लः, तत्र / सुष्टु सूयते सुषवी, अच् / कटिं लाति कटिल्लः, [ पृषोदरादित्वात् द्वित्वम् ]; कटति-आवृणोति वा, "भिल्ला-ऽच्छभल्ल-" [हैमोणादिसू० 464 ] इति ले निपात्यते / मृदूनि 10 पर्णान्यस्य मृदुपर्णः, के मृदुपर्णकः / यदाह अथ कारवेल्लः कटिल्लकः // सुषवी च . [ अमर० का० 2 वर्ग 4 श्लो० 154-55 ] इति / तथा च कारवेल्लं कटिल्लं स्यादुनकाण्डं सुकाण्डकम् / कारेवल्ली वारिवल्ली बृहद्वल्ल्यपरा स्मृता // ] इति / एतस्य लोके 'कारेली' इति प्रसिद्धिः // 359 // पटोले तु पाण्डुफलः कुलकः कर्कशच्छदः। 20 राजीफलः कफहरो राजमान्योऽमृताफलः // 360 // "पट गतौ" पटति इति पटोलः; “पटयति सरलत्वात्” इति क्षीरस्वामी, * “कटि-पटि-" [हैमोणादिसू० 493 ] इत्योलः, पुं-स्त्रीलिङ्गः, तत्र / पाण्डूनि फलान्यस्य पाण्डुफलः / कोलति-संस्त्यायति कुलकः, "धू-धून्दि-रुचि-तिलि-पुलि-कुलि-" [ हैमोणादिसू० 29 ] इत्यादिना किदकः / कर्कशानि छदान्यस्य कर्कशच्छदः / राज्याकारं 25 फलमस्य राजीफलः / कर्फ हरति कफहरः / राज्ञां मान्यो राजमान्यः / अमृतानि फलान्यस्य अमृताफलः, पृषोदरादित्वाद् दीर्घः / आह च 1 केलम्बूर्वायसी नि० // 2 कारवेल्ल्यां तु नि० // 3 राजिमानमृता नि० // 15 25