________________ ततीयो लताकाण्डः। 226] क्षीरमस्त्यस्याः क्षीरिणी, तस्याम् / पटूनि पर्णान्यस्याः पटुपर्णी / धृष्यते अनया धर्षणी, “करणाऽऽधारे" [ सिद्ध 05.3.129 ] इत्यनट् / पीतं दुग्धमस्याः पीतदुग्धा, स्वार्थिके के पीतदुग्धिका // 323 // फेनयुक्तं क्षीरमस्याः फेनक्षीरा / हेमवर्णं . क्षीरमस्याः हेमक्षीरा / पीतं क्षीरमस्याः पीतक्षीरा। करीषाः सन्न्यस्याः करीषिणी / हेम्नः- आह्वयोऽस्या , हेमाह्वया / हेम्नः शिखाऽस्याः हेमशिखा / हिमवत इयं हैमवती, "तस्येदम्" [सिद्ध 06.3.160] इत्यग् / हिमो विद्यतेऽस्याः हिमावती, "अनजिरादिबहुस्वरशरादीनां मतौ” [ सिद्ध 03.2.78] इति मतौ प्रत्यये दीर्घः / आह च क्षीरिणी काञ्चनी क्षीरी पटुपर्णी च धर्षणी / तिक्तदुग्धा हैमवती हेमदुग्धा हिमावती // स्वर्णक्षीरी स्वर्णदुग्धा सुवर्गक्षीरिकाऽपि च / हिमाह्वा कनकक्षीरी हेमक्षीरा च काञ्चनी // धिन्व० वर्ग 1 श्लो० 240,242 ] इति एतस्या लोके 'क्षीरिणी' 'स्वर्णक्षीरिणी' च प्रसिद्धिः // 324 // शविन्यां स्याद् धनहरी तस्करी चोरपुष्पिका। 15 केशिनी ग्रन्थिका चण्डा श्वेतबुध्ना निशाचरी // 325 // शङ्खोऽस्त्यस्याः शङ्खिनी, शौक्ल्यात, तस्याम् / धनं हरति धनहरी / अत एव तस्करी / चोरस्य पुष्पं चोरपुष्पी, धनहरीत्वात्, रात्रौ विकासाद् वा, के चोरपुष्पिका / केशाः सन्त्यस्याः केशिनी / ग्रन्थिरत्रास्ति ग्रन्थिका, व्रीह्यादित्वादिकः। चमति अतीव धनं चण्डा, “पञ्चमाद् डः"[ हैमोणादिसू० 168] इति डः; चण्डते 30 वा / श्वेतो बुध्नोऽस्याः श्वेतबुध्ना / निशायां चरति निशाचरी, रात्रौ विकासात् / आह च चन्द्रनन्दनोऽत्र - 25 तथा निशाचरी च स्यात् केशिनी ग्रन्थिकेत्यपि // ] इति / शङ्खिनीनामानि // 325 // आखुपया पुष्पश्रेणी 'न्यग्रोधी शम्बरी वृषा। चित्रोपचित्रा रेण्डा च प्रत्यक्श्रेणी द्रवन्त्यपि // 326 // 1 न्यग्रोधा नि० // 2 रण्डाख्युः प्र° नि० //